SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यायः ] मनुस्मृतिः। श्रमादिकमाश्रयति स वर्णधर्मः । यथा 'ब्राह्मणो न हन्तव्यः' । 'ब्राह्मणेन सुरा न पेयेति' जातिमात्रस्याऽन्त्यादुछासादेष धर्मः । आश्रमधर्मो यत्र जाति पेक्ष्यते केवला, तदाश्रमप्रतिपत्तिराश्रीयते । यथा 'ब्रह्मचारिणोऽग्नीन्धनभिक्षाचरणे' । वर्णाश्रमधर्म उभयापेक्षः । यथा मौर्वी ज्या क्षत्रियस्येत्यादिः । नाश्रमान्तरे न च जात्यन्तरस्य धारणमस्या उदाहरणम् । प्रथमोपादानन्तूपनयनं धर्मो नाश्रमधर्मः । उपनयनं वाऽऽश्रमार्थ नाश्रमधर्मः। ५ नैमित्तिको द्रव्यशुद्धयादिः। गुणमाश्रितो गुणधर्मः। 'पद्भिः परिहार्यश्चे'त्यादिः। बाहुश्रुत्येन गुणेनैते धर्माः । एवमभिषिक्तस्य क्षत्रियस्य ये धर्माः । तदेतद्वर्णग्रहणेन सर्व गृहीतमिति दर्शितम् । अवान्तरभेदस्तु नेत्येवावतिष्ठते । पुरुषत्वमात्राश्रिता अवर्णधर्मा अपि सन्ति । तेऽपि भेदेन वाच्याः स्युः । एवमन्योऽपि भेदोऽभ्यूह्यः । वर्णग्रहणं चात्र प्रदर्शनार्थम् । नान्तरप्रभवव्युदासाथै । पूर्व प्रतिज्ञातत्वात् तदनुवादिनी ह्येषा प्रतिज्ञा ॥ २५॥ १० वैदिकैः कर्मभिः पुण्यनिषेकादिजिन्मनाम् ॥ कार्यः शरीरसंस्कारः पावनः प्रेत्य चेह च ॥ २६ ॥ मन्त्रप्रयोगा वैदिककर्माणि । वेदा मन्त्रा इहाभिप्रेताः। तेषां यान्युच्चारणानि तानि।तत्र भवान्यतोऽध्यात्मादित्वाकृक् । वेदमूलत्वाद्वोपचरितो वैदिकशब्दः । कर्मशब्देन च इतिकर्तव्यतारूपं कर्म गृह्यते । ततश्च कर्मभिर्निषेकादिः संस्कारः कार्य इति साध्यसाधन- १५ भेदोपपत्तिः । प्रधानं निषेको मन्त्रोच्चारणमितिकर्तव्यता। निषेको योनौ शुक्रनिपेक्षः । स आदिर्यस्य संस्कारकलापस्य वक्ष्यमाणस्योपनयनपर्यन्तस्य । एकवचनं शरीरसंस्कार इति समुदायापेक्षम् । संस्कारशब्देन च सगुणशरीरनिर्वर्तकमुच्यते । तत्र निषेकाद्यानि विशेषजनकानि । एतदेवाह । पावन इति । पावयति अशुद्धतामपकर्षतीति पावनः । प्रेत्य चेह चेति । संस्कृतस्य सर्वत्रात्र दृष्टादृष्टफलेषु २० कर्मसु कारीरीज्योतिष्टोमादिप्वधिकारादुभयलोकोपकारकत्वमाह । पुण्यैः शुभैर्मगलैरिति यावत् । सौभाग्यमावहन्ति दौर्भाग्यं चापनुदन्तीति पुण्यपावनशब्दयोरर्थभेदः । द्विजन्मनामिति शूद्रपर्युदासार्थम् । संस्कार्यनिर्देशश्चायम् । लक्षणया च त्रैवर्णिकाः प्रतीयन्ते । न हि तदानीं द्विजन्मानो भवन्ति ॥ २६ ॥ गा:होमर्जातकर्मचौडमौञ्जीनिवन्धनैः॥ वैजिकं गाभिकं चैनो द्विजानामपमृज्यते ॥ २७ ॥ उक्तं संस्कारप्रयोजनं पावनः शरीरसंस्कारः पुण्यश्च । तत्र पावनत्वमुच्यते।दुष्टस्य दोषापकर्षणम् । कुतः पुनः शरीरस्य दुष्टतेत्याशङ्कायामाह । बैजिकं गार्भिकं चैन १ अ-क--क्ष-स्व-चूड़ा। . For Private And Personal Use Only
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy