________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मेधातिथिमाष्यसमलंकृता।
[ तृतीयः एवानुष्ठानसंभवादधिकृतानां प्राप्त एव । न ह्येतद्देशव्यतिरेकेण कृत्स्नधर्मानुष्ठानसम्भवः । तथाहि । हिमवति तावत्काश्मीरादौ शीतेनार्दिता न बहिः संध्योपासनेऽधिक्रियन्ते । न च यथाविधि स्वाध्यायसंभवः प्राग्वोदग्वा ग्रामादुपनिष्क्रम्येति । न हि हेमन्तशिशिरयोरहरहर्नदीस्नानादि संभवः । - इदमेव च द्विजातय इति वचनं लिङ्गम् । न कश्चिदेव देशोऽसति म्लेच्छसंबन्धे स्वत एव म्लेच्छदेशः । अन्यथा तद्देशसंबन्धात्म्लेच्छत्वे कथं द्विजातित्वम् ? । अथोच्यते । न गमनमात्राम्लेच्छताऽपितु निवासात् । स चानेन प्रतिषिध्यते। तच्च न। संश्रयोऽत्र श्रूयते। स च देशान्तरे भवतस्तत्त्यागेनान्यदेशसंबन्धः। न संश्रितस्यैव संश्रयणम् । अन्यथा एवमे
वावक्ष्यत्। एतान्देशांस्त्यक्त्वा नान्यत्र निवसेत् । अथ सिद्धे संश्रयणे तद्वचनमन्यनिवृत्त्यर्थ१० मिति परिसंख्या तथा स्यात्। तस्याश्च त्रयो दोषाः । अर्थहानिर्लक्ष्यते । एतान्देशान्न जह्या
दिति । न श्रुतार्थसंभवे लक्षणा युक्ता । अत एव न भूतपूर्वगतिः। तस्माल्लिङ्गमिदं न देशसंबन्धेन पुरुषा म्लेच्छाः किं तर्हि पुरुषसंबन्धेन म्लेच्छदेशता ।
शूद्रस्य द्विजातिशुश्रूषाया विहितत्वात्तद्देशनिवासे सर्वदा प्राप्ते तत्राजीवतो देशा न्तरनिवासोऽभ्यनुज्ञायते । यदा बहुकुटुम्बतया शुश्रूषाशक्त्या वा द्विजातियमाश्रितः स १५ एनं बिभृयात् । तदा देशान्तरे संभवति धनार्जने निवसेत् तत्रापि न म्लेच्छभूयिष्ठे, किंतर्हि
यज्ञिये; म्लेच्छावृते यानासनाशनादिक्रियानिमित्तस्य संसर्गस्यापरिहार्यत्वात्तद्भावापत्तिप्रसङ्गात् ।
वृत्तिकर्शितो वृत्त्यभावपीडितः । वृत्तिरात्मकुटुम्बस्थितिसमर्थ धनम् । तदभावे यत्कर्शनं तत्संबन्धितयोच्यते । यथा वर्षकृते सुभिक्षे दुर्भिक्षं वर्षाभावकृतम् । दुर्भिक्षं वर्ष२० कृतत्वेन व्यपदिश्यते ॥ २४ ॥
यस्मिंस्तस्मिन्नितिअतिनियममाहएषा धर्मस्य वो योनिः समासेन प्रकीर्तिता ॥
संभवश्चास्य सर्वस्य वर्णधर्मान्निबोधत ॥२५॥
अतिक्रान्तस्य सर्वस्य ग्रन्थार्थस्य पिण्डार्थकथनमविस्मरणार्थम् । योनिः कारणम् । २५ समासेन संक्षेपेण । संभवश्वेति प्रथमाध्यायार्थावमर्शः । अस्य सर्वस्येति । जगन्निर्माणं
बुद्ध्या प्रत्यक्षीकृत्य निर्दिशति । वर्णानुष्ठेया धर्मा वर्णधर्माः । तान्निबोधत । विस्तरेणेति विशेषः ।
इह पञ्चप्रकारो धर्म इति स्मृतिविवरणकाराः प्रपञ्चयन्ति । वर्णधर्म आश्रमधर्मो वर्णाश्रमधर्मो नैमित्तिको गुणधर्मश्चेति । तत्र यो जातिमात्रमपेक्ष्य प्रवृत्तो न योविभागा- फ-अ-द्विजातीयमाश्रितः । २ फ-सुभिक्षेसुभिक्षे । क-ख-ड-क्ष-क-ख-ड-क्ष-सुभिक्ष
। ३ फ-शेषः । ४ फ-वयोविभागेनाश्रमादिकम् ।
For Private And Personal Use Only