________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः]
मनुस्मृतिः। देशसंबन्धिनाऽप्याधयेन भवति कृत्स्नस्याधारभावः । प्रासाद आस्ते रथमधितिष्ठतीति । एवमिह ग्रामनगरसमुदायस्य नदीपर्वतान्ताद्यवधिकस्य देशस्य प्रकृतत्वादेकदेशेऽपि पर्वतारण्यादौ चरन्सर्वमाधारीकरेति । तेनायमदोषः मूर्तयो कदेशः संभवति । उच्यते । नैवात्र यष्टव्यमिति विधिरस्ति । जानातेः परो विधायकश्रुतो न यजेः । यागस्य तत्रार्हता श्रुता । यागा)ऽसौ देश इति । सा च यागार्हता सत्यपि विधौ घटते । एतेषु देशेषु यागाङ्गानि दर्भपलाशखदिरादीनि प्रायेण च भवन्ति । अधिकारिणश्च त्रैवर्णिका वैद्याश्च तेष्वेव देशेषु दृश्यन्ते । अत एतदवलम्बनो यागार्हतानुवादः । कृत्योऽपि ज्ञेय इत्यध्यारोपितविध्यर्थो ‘जर्तिलयवाग्वाजुहुयादि तिवद्विधिवन्निगदार्थवाद एव । __यच्चोक्तं ' म्लेच्छदेशस्त्वतःपर' इत्येषोऽपि प्रायिकोऽनुवाद एव । प्रायेण ह्येषु देशेषु म्लेच्छा भवन्ति । न त्वनेन देशसंबन्धेन म्लेच्छा वक्ष्यन्ते । स्वतस्तेषा प्रसिद्धर्ब्राह्मणादि- १० जातिवत् । अथार्थद्वारेणायं शब्दः प्रवृत्तो म्लेच्छानां देश इति तत्र यदि कथंचिब्रह्मावर्तादिदेशमपि म्लेच्छा आक्रमेयुः तत्रैवावस्थानं कुर्युभवेदेवासौ म्लेच्छदेशः । तथा यदि कश्चित्क्षत्रियादिजातीयो राजा साध्वाचरणो म्लेच्छान्पराजयेत् चातुर्वर्ण्य वासयेत् म्लेच्छांश्चार्यावर्त इव चाण्डालान्व्यवस्थापयेत्सोऽपि स्याद्यज्ञियः । यतो न भूमिः स्वतो दुष्टा संसर्गाद्धि सा दुष्यत्यमेध्योपहतेव । अत उक्तदेशव्यतिरेकेणापि सति सामग्र्ये १५ त्रैवर्णिकेनाकृष्टमृगचरणेऽपि देशे यष्टव्यमेव तस्मादनुवादोऽयम् । ‘स ज्ञेयो यज्ञियो देशो म्लेच्छदेशस्त्वतः पर' इत्युत्तरविधिशेषः ॥ २३ ॥
एतान् द्विजातयो देशान्संश्रयेरन्प्रयत्नतः॥
शूद्रस्तु यस्मिंस्तस्मिन्वा निवसेवृत्तिकर्शितः ॥ २४ ॥ यदर्थ देशसंज्ञाभेदकथनं तमिदानी विधिमाह । एतान्ब्रह्मावर्तादीन्देशान्द्रिजा- २० तयो देशान्तरेऽपि जाता आश्रयेरन् । जन्मदेशं त्यक्त्वा ब्रह्मावर्तादिदेशसंश्रयणं प्रयत्नेन कर्तव्यम् ।
अत्र केचिदाहुरदृष्टार्थ एवायमेतद्देशसंश्रयणविधिः । सत्यपि देशान्तरेऽप्याधिकारसंभवे एतेषु देशेषु निवासः कर्तव्यः । तत्र कल्पाधिकारत्वे, यदि वा गङ्गादितीर्थस्नानवदेतद्देशनिवासविधिः पावनत्वेन कल्प्यते । यथैव काश्चिदापः पवित्रतरा एवं भूमिभागा २५ अपि केचिदेव पवित्राः । यथोक्तं पुराणे यदि वा संश्रयणादेव स्वतन्त्रात्स्वर्गो विश्वजिद्वत्तत्रैतौ द्वावपि पक्षावप्राप्तौ । यद्यप्राप्तः संश्रयो विधीयते कल्प्येताप्यधिकारः । तत्र चिन्त्यते । कतरः पक्षो युक्त इति । स त्वनित्यकाम्यानामुक्तया रीत्या । एतद्देश
१ अ-क-क्ष-फ-एकदेशोऽपि । २ कड-क्ष-येन येन येन । ३ ड-अकृष्णमृगचरणे । ४ फयस्मिन्कस्मिन् । ५ क-ड-क्ष-देशान्तरेष्वधिकारसम्भवे । ६ अ-क-ड-ख-क्ष-कल्पते । ७ फ-तथ नित्योद्देश एव । अ-क-इ-क्ष-स त्वनित्यकाम्यानामुक्तानीत्या ।
For Private And Personal Use Only