SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मेधातिथिमाण्यसमलंकृता। [द्वितीयः हिमवद्विन्ध्ययोर्मध्यं यत्नाग्विनशनादपि ॥ प्रत्यगेव प्रयागाच्च मध्यदेशः प्रकीर्तितः ॥ २१ ॥ उत्तरस्यां दिशि हिमवान्पर्वतो दक्षिणस्यां विन्धयः । विनशनं सरस्वत्या अन्तनिदेशः । प्रयागो गङ्गायमुनयोः संगमः । एतान्देशानवधीन्कृत्वा मध्यं मध्यदेशनामानं ५ देशं विद्यात् । नात्युत्कृष्टो नातिनिकृष्ट इत्यतोऽयं मध्यदेशो न तु पृथिवीमध्यभवत्वात् ॥ ३१ ॥ आसमुद्रात्तु चै पूर्वादासमुद्राच्च पश्चिमात् ॥ तयोरेवान्तरं गिर्योरार्यावर्त विदुर्बुधाः ॥ २२ ॥ आपूर्वसमुद्रादापश्चिमसमुद्राद्योऽन्तरालवर्ती देशस्तथा तयोरेव पूर्वश्लोकोपदिष्टयो१. गिर्योः पर्वतयोहिमवद्विन्ध्ययोर्यदन्तरं मध्यं स आर्यावर्तो देशो बुधैः शिष्टैरुच्यते । आर्या वर्तन्ते तत्र पुनःपुनरुद्भवन्त्याक्रम्याक्रम्यापि न चिरं तत्र म्लेच्छाः स्थातारो भवन्ति । आङत्र मर्यादायां नाभिविधौ । तेन समुद्रद्वीपानि नार्यावर्तः । एते चतसृषु दिक्षु देशावधय उपात्ताः । प्राच्यां पूर्वसमुद्रः प्रतीच्या पश्चिमः । उदग्दक्षिणयोर्हिमवद्विन्ध्यौ । एतौ ह्मवधित्वेनोपात्तौ । न तयोरार्यावर्तत्वमस्त्यतस्तत्र निवासाभावे प्राप्त इदमाह ॥ २२ ॥ १५ कृष्णसारस्तु चरति मृगो यत्र स्वभावतः॥ स ज्ञेयो यज्ञियो देशो म्लेच्छदेशस्त्वतःपरः ॥ २३ ॥ कृष्णश्वेतः कृष्णपीतो वा कृष्णसारङ्गो मृगो यत्र चरति निवसति । संभव उत्पत्तिर्यत्र देशे तस्य स्वभावतो न पुनर्देशान्तरात्प्राशस्त्योपायनादिना निमित्तेनानीतस्य कियन्तमपि कालं निवासः स देशो यज्ञियो यागार्हो बोद्धव्यः । अतः कृष्णमृगचरणात्परो२० न्यो म्लेच्छदेशः । म्लेच्छाः प्रसिद्धाः । चातुर्वर्ण्यनात्यपेताः प्रतिलोमनातीयानधिकृता मेदान्ध्रशबरपुलिन्दादयः । न चानेन यागाधिकरणताऽस्य देशस्य विधीयते । 'समे यजेतेति'वत्। चरतीति वर्तमाननिर्देशात् । न हि यत्रैव चरितुं प्रवृत्तस्तदैव तत्र यागः शक्यः कर्तुम् । यागस्य हि देशोऽधिकरणं तत्साधनकादिकारकाश्रितद्रव्यादिधारणद्वारेण । न च द्वयोर्मूर्तयोरेककाले २५ एकदेशे स्थानसंभवः । न च कालान्तरलक्षणा न्याय्या विधौ लक्षणाया अन्याय्यत्वात् । यथोक्तं शूर्पाधिकरणे । 'एतद्धि क्रियत इत्युच्यत' इति । ननु च नाभिव्यापक एवाधेयो येन कृत्स्नाधाराभिव्याप्त्यैवाधिकरणार्थनिर्वृत्तिः स्यात् । तिलेषु तैलमितिवत् । किंतर्हि एक ... १ अ-क-ड-क्ष-ख्यातारो २ ड-तैलमितिवत चेत् । For Private And Personal Use Only
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy