________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ तृतीयः
मेधातिथिभाष्यसमलंकृता। परेषामागर्भग्रहणात्प्रत्युतु । श्मशानमन्तोऽस्येति श्मशानान्तः । श्मशानशब्देन मृतशरीराणि यत्र निधीयन्ते तत्स्थानमुच्यते । तच्च साहचर्यात्प्रेतसंस्कारं पराचीमिष्टिं लक्षयति । सा हि मन्त्रवती । न स्थानम् । अनेन च द्विजातयो लक्ष्यन्ते । तेषा हि मन्त्रवन्तः संस्काराः द्विजातीनामिति नोक्तम् । विचित्रा श्लोकानां कृतिः स्वायंभुवस्यास्य मनोः।
मन्त्रैरुदित उक्तो विधिरिति नायं संबन्धः । न हि मन्त्रा विधिं वदन्ति । किं तर्हि ? प्रयोगावस्थस्य विधेयस्य स्मारका न विधायकाः । तस्मादेवं व्याख्येयम् । मन्त्रैर्युक्तः समन्त्रको येषामयं विधिरिति । नान्यस्य कस्यचिदित्यनुवादो द्विजातीनां नियतत्वात् ।
अथवा कश्चिन्मन्येत द्विजातीनामयं विहितोऽवश्यकर्तव्यः । शूद्रणां त्वशिष्टोऽतिषिद्ध १० इति । तदा शङ्कानिवृत्त्यर्थमिदमुक्तम् ॥ १६ ॥
सरस्वतीदृषद्वत्योर्देवनद्योर्यदन्तरम् ॥
तं देवनिर्मितं देशं ब्रह्मावर्त्त प्रचक्षते ॥ १७ ॥ उक्तानि धर्म प्रामाणानि। विरोधे च विकल्पोऽभिहितः। अधिकारिणश्च सामान्येनोक्ताः। इदानीं येषु योग्यतया धर्मोऽनुष्ठेयतामापद्यते ते देशा वर्ण्यन्ते । सरस्वती नाम नदी । अपरा दृषद्वती । तयोर्नचोर्यदन्तरं मध्यं तं देशं ब्रह्मावर्त इत्यनया संज्ञया प्रचक्षते व्यवहरन्ति शिष्टाः । देवग्रहणमवध्यवधिमतोः स्तुत्यर्थम् । देवैः स निर्मितोऽतः सर्वेभ्यो देशेभ्यः पावनतर इति ॥ १७॥
तस्मिन्देशे य आचारः पारम्पर्यक्रमागतः॥
वर्णानां सान्तरालानां स सदाचार उच्यते ॥ १८ ॥ २० अथास्मिन्देशे य आचारस्तस्य प्रामाण्ये किं विद्वत्ता शिष्टता चोपाधिरङ्गीक्रियते ।
अथाविदुषामशिष्टानां च देशोपाधिरेव प्रमाणम् । किं चातः यदि नापेक्ष्यते यत्तदुक्तं 'आचारश्चैव साधूनामिति ' विशेषणद्वयमनर्थकम् । नत्वसाध्वाचारस्य धर्ममूलतोपपद्यते । वेदसंयोगासंभवात् । अथापेक्ष्यते देशविशेषसंबन्धानुपकारः । न हि देशान्तरेऽपि
शिष्टसमाचारस्याप्रामाण्यं शक्यते वक्तुम् । उच्यते । प्रायिकमेतदभिधानं प्रायोवृत्त्याऽस्मि२५ न्देशे शिष्टानां संभव इत्युक्तम् । तस्मिन्देशे य आचारः स सदाचार इति ।
___ अन्ये तु, देशान्तरे मातुलदुहितुः परिणयनाद्देशाचारनिषेधार्थमिदमित्याहुः । - तेदयुक्तम् । अविशेषेणैवोक्तं तद्देशकुलजातीतानामविरुद्धं कल्पयेत् । स च विरुद्ध
४क-७क-ड-वाऽयं सम्बन्धः ।
For Private And Personal Use Only