________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः]
मनुस्मृतिः।
'विदुषा ब्राह्मणेनेदमध्येतव्यमिति ' पठन्ति स चार्थवादः । तत्र तव्यप्रत्ययदर्शनात्कस्यचिद्विधिभ्रान्तिः स्यात् । तथा च सति क्षत्रियवैश्ययोरध्ययनं निवर्तत इत्येदाशङ्कानिवृत्त्यर्थोऽयं श्लोकः क्षत्रियवैश्ययोः प्राप्तिं दर्शयति । तथा यथाकामी शूद्रोऽप्यप्रतिषेधादध्येतुं प्रवर्तेत तन्निवृत्यर्थमपीत्येवमिमं श्लोकं पूर्व व्याचक्षरे । शास्त्रशब्दोऽयं मानवग्रन्थवचनः अधिकारो मयैतद्नुष्ठेयमित्यवगमः । न च शब्दराशेः सिद्धस्वभावस्यानुष्ठेयत्वावगतिः संभवति । न हि द्रव्यमनाश्रित्य क्रियाविशेष साध्यतयाऽवगम्यते । अतः शास्त्रविषयायां कस्यांचिंक्रियायामधिकार इत्यवगम्यते । तत्र 'कृम्वस्तय' स्तावन्न विषयतया प्रतीयन्ते । वस्त्योर्भवत्यर्थत्वात् । भ्वस्तिसंबन्धे ह्ययमर्थः प्रतीयते । शास्त्रस्य यद्भवनं या च सत्ता तामनुतिष्ठेदिति । न चान्यदीयायां सत्तायामन्यस्यानुष्ठातृत्वसंभवः । करोत्यर्थेपि न संभवति । पदानां नित्यत्वाद्वाक्यानां चान्येन कृतत्वात् । अतः १० शास्त्रसहचारिण्यध्ययनक्रिया प्रतीयते । अतोऽयमर्थ उक्तो भवति । शास्त्राध्ययने तस्याधिकारः । यथैवाध्ययने तथैव तदर्थश्रवणेऽपि ।
____ न चोदिमत्त्वान्मानवस्य ग्रन्थस्य कथं तद्विषयो विधिरनादिवेदमूल इति शक्यते वक्तुम् । उच्यते । यानि कानिचन शास्त्रप्रतिपादकानि वाक्यानि न तानि शूद्रेणाध्येयानीति शक्यते । सामान्यतोऽनुमानम्। यानि वेदवाक्यानि यानि तदर्थव्याख्यानवाक्यानि व्याख्या- १५ तृणां तत्प्रतिरूपकाणि तान्यपि प्रवाहनित्यतया नित्यान्येव । अनुष्ठानं तु शास्त्रविषयः । तत्र चातुर्वर्णस्याधिकारः । नन्वेवं सत्यनुपात्तकर्तृविशेषेषु सामान्यधर्मेषु शूद्रस्याधिकारप्रसङ्गः । यथा च न भवति तथा च तत्र तत्र कथयिष्यामः।
ननु कथमध्ययनावबोधाधिकारनिषेधे कर्माधिकारः न ह्यविदितकर्मरूपस्य तद्नुष्ठानसंभवः, न चाध्ययनमन्तरेण तदर्थावबोधसंभवः, न चावैद्योऽधिक्रियते । सत्यम् । परोप- २० देशादपि यावत्तावत्सिद्धयति परिज्ञानं यं ब्राह्मणमाश्रितः शूद्रो यो वाऽर्थतः प्रवृत्तः स ऐनं शिक्षयिष्यतीदं कृत्वेदं कुर्विति । अतो न कर्मानुष्ठानप्रयुक्ते शूद्रस्याध्ययनवेदने, स्त्रीवत्परप्रत्ययादप्यनुष्ठानसिद्धेः । यथा स्त्रीणां भर्तृविद्यैव प्रसङ्गादुपकरोति । न कर्मश्रुतयो विद्यां प्रयुञ्जते । तेषामेव स्वप्रत्ययोऽनुष्ठानहेतुर्येषां 'स्वाध्यायोऽध्येतव्य' इति विधिरस्ति पुंसाम् । स च पुंसां त्रैवर्णिकानां तेषामपि नार्थज्ञानप्रयुक्तेऽध्ययनवेदने । अपि तु विधिद्वयप्रयुक्ते २५ आचार्यकरणविधिना स्वाध्यायाध्ययनं विधिना च ।
निषेको गर्भाधानं स आदिर्यस्य संस्कारकलापस्य स निषेकादिः । गभार्धानं च विवाहादनन्तरं प्रथमोपगमे ‘विष्णुर्योनि कल्पयतु' इति मन्त्रवत्केषांचिद्विहितम् ।
१फ-श्वसोरभवत्यर्थत्वां । क-ड-क्ष-भ्वस्सोरभवत्यर्थत्वात् । २ ड-न तु । क-ननु । ३ अक उ-क्ष-अनुष्ठानं तु न शास्त्रविषयः।४ फ-एवं ।
For Private And Personal Use Only