________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मेधातिथिमाष्यसमलंकृता ।
[द्वितीयः समुद्र तत्र कर्मप्रधानं, कालो गुणः, न चैकस्मिन्प्रयोगे कालत्रयसंभवः, न च कालानुरोधेन प्रयोगानुत्तिर्युक्ता, नाङ्गानुरोधेन प्रधानमावर्तनीयम्, तस्मान्न्याय्योऽयं तुल्यशिव सिंकल्प इति । न वचनात् ।
भावपि है तौ धर्मी । ननु च को भेदस्तत्र धर्मावित्यस्मादेतस्य न कश्चित् । पर्वणवतमुपन्यस्तमुत्तरेणान्यैरपि मनीषिभिरेतदेवोक्तमिति स्वमतमाचार्यान्तरमतसंवादेन
-
RM...
उदितेऽनुदिते चैव समयाध्युपिते तथा ॥ सर्वथा वर्तते यज्ञ इतीयं वैदिकी श्रुतिः ॥१५॥
उदाहरणमिदम् । अनन्तरप्रदर्शिते विरोधे । य एते त्रयः काला इतरेतरनिन्दया १० होमस्य विहिताः तत्रायमर्थः श्रुतिवाक्यानाम् । सर्वथा वर्तते यज्ञः । सर्वप्रकारो होमः
प्रवर्तते । प्रवर्तनीय इत्यर्थः । या उदितहोमनिन्दा सा न तत्प्रतिषेधार्था किं तर्खनुदितहोमविध्यर्था । एवमितरत्रापि तेनायमर्थ उक्तो भवति । सर्वथा कर्तव्य एतेषां कालानामन्यतमस्मिन्काले । तत्र यस्मिन्कृतस्तत्र संपूर्णः शास्त्रार्थो भवतीतीयं वैदिकी श्रुतिरेवं
परा। अस्मिन्नर्थेऽस्यास्तात्पर्य न पुनर्निन्धमानप्रतिषेधे। यज्ञो होमोऽत्राग्निहोत्राख्योऽभिप्रेतः। १५ यागहोमयोर्यतो नात्यन्तं भेदः । देवतामुद्दिश्य द्रव्यस्य स्वत्वत्यागो ‘नेदं मम देवताया
इदमिति' यागः । एतच्च स्वरूपं होमेऽप्यस्ति । अयं तु विशेषो यष्टव्यस्य होमे प्रक्षेपः । अधिक आरोपणविशेषोऽन्यादौ । अतो यज्ञशब्देनात्र होमस्याभिधानम् । होमे ह्येते कालाः श्रुतावाम्नाता न यागमात्रे । उदितादिशब्दैश्चोदिते होतव्यमित्यादिका श्रुतिरेकदेशेन लक्ष्यते । येयमुदिते होतव्यं नोदिते होतव्यमिति श्रुतिः सैवंपरेत्येवं योजना ।
समयाध्युषितशब्देन समुदायेनैवौषसः काल उच्यते। अन्ये तु पदद्वयमेतदित्याहुः। समयाशब्दः समीपवचनः समीपिनमपेक्षते । उदितानुदितयोः सन्निधानात्तत्समीपी संध्याकालः । अध्यषितं रात्रेर्विवासकालः । व्युष्टायां रात्रावित्यर्थः । कासुचिच्छ्रतिष्वेवं पठितम् । कासुचिदेवमिति श्रुतिवाक्यानुकरणमेषा स्मृतिस्तत्र किंपदद्वयमेतदुतैकामति तत एव निर्णयः ।
अतो विकल्पेनैकं होमाख्यं कर्म प्रतिकालत्रयेऽपि श्रुतिविधानान्नास्ति विरोधः । सिद्धरूपे २५ हि वस्तुनीतरेतरविरुद्धरूपसमावेशासंभवः । तस्माद्विरोधो न साध्ये । साध्य ह्यनेनापि
सिद्ध्यत्यनेनापीति एवमवगम्यते । तत्र कुतो विरोधः एष एव च स्मृतीनां विरुद्धानां विकल्पो न्याय्यः ॥ १५ ॥
निषेकादिश्मशानान्तो मन्त्रैर्यस्योदितो विधिः॥
तस्य शास्त्रेऽधिकारोऽस्मिज्ञेयो नान्यस्य कस्यचित् ॥ १६ ॥ १ड-क-क्ष-युक्तानाम् याग्यनुरोधेन । २ क-ड-क्ष-वचनात् । ३ अ-क-ड-क्ष-एकस्या
४क-न-क्ष-रूपम्। ५फ-तत्र समापम् ।
For Private And Personal Use Only