SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यायः ] मनुस्मृतिः । न चेयान्प्रन्थराशि, सर्वव्यापारपरित्यागेन विना शक्य आसादयितुम् । समाचारेतिहासादेः कतिपये धर्मा अवगम्यन्ते । न वेदादिवत्समस्ताङ्गयुक्तो ज्योतिष्टोमादिप्रयोगः । अत उक्तं । प्रमाणं परमं श्रुतिः । न तु समाचारादेः प्रामाण्यापकर्षः तदुक्तं " योऽहेरिव धनाद्भीतो मिष्टान्नाच्च विषादिव । राक्षसीभ्य इव स्त्रीभ्यः स विद्यामधिगच्छति " अपरे त्वर्थकामदृष्टफलैषिण उच्यन्ते । तत्र सक्तानां पूजाख्यात्यादिकामानां दृष्टफलार्थितया लोकपक्तिमात्रप्रयोजनानां न धर्मज्ञानं धर्मानुष्ठानं विधीयते उपदिश्यते । ज्ञायतेऽस्मिन्निति ज्ञानमनुष्ठानमित्युच्यते । अनुष्ठीयमानो हि धर्मों व्यक्ततरो भवति । शास्त्रावगमकालतोऽपि अतोऽनुष्ठानं धर्मज्ञानमुच्यते । अत एतदुक्तं भवति । यद्यपि धर्मानुष्ठानालोकपत्त्यादि दृष्टं प्रयोजनमुपलक्ष्यते तथापि न तत्सिद्धिपरतया तत्र प्रवर्तितव्यम् । किं तर्हि ? शास्त्रेण तच्चोदितमिति कृत्वा । तथा च प्रवृत्तौ यदि दृष्टमपि १० भवति । भवतु, न विचार्यते । तथा च श्रुतिः स्वाध्यायस्य दृष्टं फलमनुवदति । “ यशो लोकपक्तिरिति ” “ लोकः पच्यमानश्चतुर्भिरेनं भुनक्ति । अर्चया दानेनाजेयतया चावध्यतया " इत्यादि । श्लोकश्चात्र भवति- << ७१ 66 "" यथेक्षहेतोरिह सेचितं पयस्तृणानि वल्लीरपि च प्रसिञ्चति । तथा नरो धर्मपथेन संचरन्यशश्च कामांश्च वसूनि चाश्नुते ॥ ननु च यस्य यः स्वभावोऽवगतः सोऽन्येोद्देशेनाप्यनुष्ठीयमानो न स्वभावच्च्यवते करोत्येव तत्कार्यम् । यथा विषं औषधोद्देशेनापि पीतं हन्त्येव । अतो दृष्टार्थतयाऽप्यनुष्ठीयमानानि कर्माणि शास्त्रीयाण्यदृष्टार्थान्यपि भविष्यन्ति । को भवतो मत्सरो लोकावर्जनहेतुतया न प्रवर्तितव्यमिति येनात्थ । अत आह । धर्मे जिज्ञासमानानां वेदो धर्मे प्रमाणम् । तेन चैतदुक्तम् । दृष्टफलकामार्थानां नादृष्टं भवति । न केवलं दृष्टं न भवति । २० यावत्प्रतिषिद्धसेवनाद्धर्मोऽपि भवति ॥ १३ ॥ श्रुतिद्वैधं तु यत्र स्यात्तत्र धर्मावुभौ स्मृतौ ॥ उभावपि हि तौ धर्मों सम्यगुक्तौ मनीषिभिः ॥ १४ ॥ For Private And Personal Use Only १५ प्रागुक्तो व्याघातः परिह्रियते । यत्र श्रुत्योद्वैधं विरुद्धाभिधानं यं धर्मोऽयमिति काचिच्छ्रुतिराह, तमेवाधर्ममित्यन्या । तत्र उभावपि तौ धर्मावनुष्ठेयौ विकल्पेन । तुल्य- २५ बले हि ते श्रुती । तत्रेयं प्रमाणमियं नेत्यशक्यो विवेकः । अत एकार्थतुल्यबलविरोधे विकल्पः। इत्युभावपि तौ धर्मावित्युक्तम् । तत्र समुच्चयः प्राप्नोति । एवमुभौ धर्मै भवतोsन्यथा एकः स्यात् । नेति ब्रूमः । पर्यायेणापि प्रयोगे नोभयशब्दस्य प्रवृत्तिविरोधः । न ह्ययं सापेक्ष्यद्वयविषय एव । न्याय्यश्च विकल्पः । यथाऽग्निहोत्राख्यमेकं कर्म; तस्य १ क- कातरोऽपि । २ विकल्पपक्षे ।
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy