SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 190 www.kobatirth.org १० मेघातिथिभाष्यसमलंकृता । [ द्वितीयः नात्र काश्चार्द्वशेषः वेदनिन्दाप्रतिषेधेन स्मृतिसदाचारात्मतुष्टीनामपि निन्दकस्य बहिष्कारोऽनेन विहितः । तेषामपि वेदमूलधर्माभिधानम् । अतः स्मृत्यादिनिन्दको वेदनिन्दक एव । (6 Acharya Shri Kailassagarsuri Gyanmandir ननु श्लोकद्वयेन नार्थः । एवं वक्तव्यम् । श्रुत्यादीनात्मतुष्ट्यन्तान्हेतुशास्त्रा५ श्रयान्द्विजः । यो निन्देत्स बहिष्कार्यः साधुभिर्नास्तिकत्वतः " । उच्यते । नाचार्या ग्रन्थगौरवं मन्यन्ते । बुद्धिगौरवं यत्नेन परिहरन्ति । तस्मिन्हि सति असम्यगवबोधो धर्मस्य । स च पुरुषार्थे विहन्ति । भेदनिर्देशेऽपि हि चोदयेयुर्वेदग्रहणमेव कर्तव्यम् । सर्वस्य धर्मस्य वैदिकत्वात् । तस्माद्विस्पष्टार्थं भेदेनोभयनिर्देशः । संक्षिप्तरुचीनां पूर्व श्लोकः । अन्येषां श्लोकद्वयम् । ' स्वस्य च प्रियमात्मनः ' इत्यनेन प्रागुक्ता आत्मतुष्टिरेवोक्ता । स्वग्रहणं वृत्तपूरणार्थम् । एत ‘त्साक्षाद्धर्मस्य लक्षणं ' निमित्तं ज्ञापकम् । न पुनः प्रत्यक्षम् । यथा नैरुक्तं ' साक्षात्कृतधर्माण' इति । विधाशब्दः प्रकारवचनः । एकमेव धर्मे प्रमाणं वेदाख्यं । तस्य त्वेते भेदाः स्मृत्यादयः । अन्ये तूपसंहारार्थमिमं श्लोकं व्याचक्षते । समाप्तं धर्मलक्षणप्रकरणमिति पुनः पाठः १५ समाप्तिं सूचयति । यथा द्विरभ्यासो वेदाङ्गेषु संस्थाजपेनेोपतिष्ठन्त उपतिष्ठन्त इति । तथा च पिण्डीकृत इव प्रागुक्तोऽर्थो हृदि वर्तते । यथा नैयायिका अनित्यः शब्द इति प्रतिज्ञाय साधनोपन्यासं कृत्वा निगमयन्ति । तस्मादनित्यः शब्द इति । प्रायेण चैषा ग्रन्थाका - राणां रीतिः । तथा महाभाष्यकारोऽपि क्वचित्सूत्रं वार्तिकं वा पठित्वा व्याख्याय पुनः पठति ॥ १२॥ २० अर्थकामेष्वसक्तानां धर्मज्ञानं विधीयते ।। धर्म जिज्ञासमानानां प्रमाणं परमं श्रुतिः ॥ १३ ॥ गोभूमिहिरण्यादिधनमर्थः । तत्र सतिस्तात्पर्येण तदर्जनरक्षणार्थं कृषिसेवादिव्यापारकरणम् । कामः स्त्रीसंभोगः । तत्र सक्तिर्नित्यं तदासेवनं तदङ्गानां च गीतवादित्रादीनाम् । तद्वर्जितानां पुरुषाणां धर्मज्ञानं धर्मावबोधो विधीयते विशेषेणं धीयते । २५ व्यवस्थितं भवति । ‘ धा आधार ' इत्यस्यैतद्रूपम् । किमर्थ पुनस्तत्र सक्ताना भवति धर्मज्ञानं यावता तेपि यथालक्षणं तदविरोधिन्यवसरे भोजनादावितिहासश्रवणादन्योपदेशात्समाचाराद्वा शक्नुवन्ति ज्ञातुमित्यत आह । धर्मजिज्ञासमानानामिति । मुख्यं प्रमाणं धर्मे वेदः स च तैर्न शक्यो ज्ञातुम् । अत्यन्त - दुर्विज्ञानो ह्यसौ निगमनिरुक्तव्याकरणतर्कपुराणमीमांसाशास्त्रश्रवणमपेक्षते स्वार्थबोधे । १ अ-क-ड-क्ष- प्रामाण्यं परमा श्रुतिः । २ अ-क-ड-क्ष- आधीयते । For Private And Personal Use Only
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy