________________
Shri Mahavir Jain Aradhana Kendra
अध्यायः
www.kobatirth.org
]
मनुस्मृतिः ।
आज्ञाविषये ; समनन्तरमन्येद्युर्वा कालान्तरेऽथवा । एवमेतच्छास्त्रफलमनियतकालम् । दिव्यवृष्ट्यादेस्तु स्वाभाव्येन प्रत्यासत्तिमात्रं गम्यते । न तु तदहरेवोत्पत्तिः ।
Acharya Shri Kailassagarsuri Gyanmandir
प्रतिबन्धकानि च यथा फलस्यैवंविधस्य लोके भवन्ति तथा वेदेऽपि । पुराकृतं दुष्कृतादि । तथा च वेद एवैतद्दर्शयति । यदि न वर्षेत्तथैव वसेदिति । सर्वस्वारे तु विवदन्ते । ‘नैतत्क्रतुफलम् । अङ्गमेतत्स्मरणम् । क्रतुफलं यः कामयेतानामयः स्वर्गलोकमियामिति ' । यच्चोक्तं हिंसायां लोकवेदयोर्न विशेष इति तत्र शास्त्रावगम्यो हि तस्या अयं स्वभावो न प्रत्यक्षादिगोचरस्तत्र च भेदः । रागलक्षणा लौकिकी हिंसा, विधिलक्षणाऽलौकिकी हिंसा, विधिलक्षणा त्वग्नीषोमीयस्येति महान्भेदः । तस्मान्न किंचिद्वेदेऽनृतम् । व्याघातं परस्तात्परिहरिष्यति श्लोकेनैव ॥ १० ॥
योऽवमन्येत ते मूले हेतुशास्त्राश्रयाद्दिजः ।। स साधुभिर्वहिष्कार्यो नास्तिको वेदनिन्दकः ॥ ११ ॥ असत्यप्रामाण्यहेतोर्वेदस्य यो द्विजो हेतुशास्त्राश्रयाद्धेतुशास्त्रं नास्तिकतर्कशास्त्रं बौद्धचार्वाकादिशास्त्रम् । यत्र वेदः अधर्मायेति पुनः पुनरुदुष्यते तादृशं तर्कमाश्रित्य योऽवज्ञां कुर्यात् । श्रुतौ स्मृतौ च केनचिदकार्यान्निवर्त्येत ' मैवं कार्षीः प्रतिषिद्धं वेदेनेति ' तमनादृत्य चिकीर्षेत् ' किंनाम वेदे ' । यदि १५ वेदे स्मृतिषु वा प्रतिषिद्धं किं तयोः सम्यक् प्रामाण्यमस्तीति कथयेत् मनसा वा विचिन्तयेत् । तर्कशास्त्रेषु निबद्धादरो यदि दृश्येत स साधुभिः शिष्यैर्बहिः कार्यस्तत्तत्कार्येभ्यो याजनाध्यापनातिथिसत्कारादिभ्यः । क्रियाविशेषस्यानिर्देशाद्विद्वदम्य इति गम्यते । यतोऽविद्वान्सम्यगसंस्कृतात्मा तार्किकगन्धितयैवं व्यवहरति । आसु च क्रियासु विद्वानधिक्रियते । अत एव पूर्वश्लोके विचार ईदृशः प्रतिषिध्यते यतस्तदवज्ञानपरतया क्रियते । २० ननु यतस्तदर्थविशेषजिज्ञासया । एवमर्थमेव हेतुमाह । नास्तिको वेदनिन्दकः । अतश्व पूर्वपक्षे यो वेदस्याप्रामाण्यं ब्रूयान्नासौ नास्तिकः स्यात् । सिद्धान्तदार्व्यार्थमेव पूर्वपक्षे हेतुकथनं वेदनिन्दक इति । स्मृतिग्रहणं न कृतम् । तुल्यत्वेनोभयोः प्रकृतत्वादन्यतरनिर्देशेनैव सिद्धमुभयस्यापि ग्रहणमित्यभिप्रायः ॥ ११ ॥
1
वेदः स्मृतिः सदाचारः स्वस्य च प्रियमात्मनः ।। एतच्चतुर्विधं प्राहुः साक्षाद्धर्मस्य लक्षणम् ॥ १२ ॥
१ क- प्रसत्तिमात्रम् । २ अ-क-ड क - ननु । ३ अ-क
यस्त्वेतमर्थमविदित्वा वेदशब्दस्य विवक्षितार्थत्वमेव मत्वा स्मृतिनिन्दकस्य न बहिष्कारः, २५ अनेन वेदनिन्दकस्यैव विहितं इति प्रतिपद्येत । तं प्रत्याह
For Private And Personal Use Only
६९
- निवर्तितः ।
१०