________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मेघातिथिमाष्यसमलंकृता ।
[द्वितीयः तस्य तद्विपरीतरूपसंभावनमसत्तांश्रयैरसम्यग्घेतुभिर्यद्विचारणं तत्सिद्धान्ताभिनिवेशः स इह प्रतिषिध्यते । न पुनरयमों वेदस्यास्याद्यः पूर्वपक्ष उतस्विद्यः सिद्धान्त इत्येषा मीमांसा निषिध्यते । यतो वक्ष्यति । “ यस्तकेंणानुसंधत्ते स धर्म वेद नेतर " इति ।
किं पुनरयमदृष्टार्थो मीमांसनप्रतिषेधः । नेति ब्रूमः । ताभ्यां धर्मो हि निर्वभौ । अनेन तार्किकप्रमाणानां वेदार्थविपरीतसाधनानामाभासतामाह । ईदृशा हि तेषां हेतवः वैदिकी हिंसा पापहेतुः हिंसात्वालौकिकाहिंसावत् । तत्र हिंसायां पापहेतुत्वं न कुतश्चिदन्यतः प्रमाणात्सिद्धमन्तरेणागमम् । एवं चेन्नास्ति हिंसायाः पापसाधनसिद्धौ हेतुः यावदागमः प्रामाण्येन नाम्युपगतः । अभ्युपगते चागमप्रामाण्ये तद्विरुद्धो हेतुर्न युज्यते अप्रामाण्यापत्तेराग
मस्य । ततश्चेतरेतरव्याघातः पूर्व प्रामाण्येन परिग्रहः पश्चादप्रामाण्यमिति । सोऽयं १० स्ववचनविरुद्धः पक्षः । नैनं तार्किका अनुमन्यन्ते । — मम माता वन्ध्येति ' वत् ।
आगमविरुद्धादिश्च । अथोच्यते। नैवागमः प्रमाणं कथं तद्विरोधोद्भावनं दूषणम् । अनृतव्याघातपुनरुक्तदोषेभ्यः । कारीर्यादिकर्मणां तत्समनन्तरं फलार्थितयाऽनुष्ठीयमानानां न नियमतोऽनुष्ठानसमनन्तरं फलप्राप्तिः । कालांतरे भविष्यतीति चेदुक्तमत्र । 'कृता शरदि
कारीरी भृशं शुष्यत्सु शालिषु । वसन्ते जायते वृष्टिस्तस्यादौ न भवेत्फलमिति' । १५ यान्यष्यन्यत्र भाविफलानि ज्योतिष्टोमादीनि तत्रापि निरन्वयविनाशात्कर्मणो वर्षशते
फलं भविष्यतीति निःसंदिग्धवैतौलिकव्यवहारोपममेतत् । तस्मादनृतम् । ___व्याघात उदिते होतव्यमनुदिते जुह्वतो दोषः । “ प्रातःप्रातरनृतं ते वदन्ति पुरोदयाज्जुह्वति येऽग्निहोत्रम्"। तथाऽनुदिते होतव्यं यथा अतिथये प्रद्रुताय दद्यात्तागेतद्यज्जुहुयादित्येकवोदितहोमो विधीयतेऽनुदितहोमनिन्दया । तदेव विपरीतमन्यत् । तत्रैकः पक्ष आश्रीयतामित्यनध्यवसायः । यदेवाग्निहोत्रायेकस्यां शाखायां विद्यते तदेव शाखान्तरेऽपि । सर्वशाखाप्रत्ययमेकं कर्मेत्यभ्युपगमः । ततश्च पुनरुक्तम् । ___ तत्रानृतमेव तेन्न भवतीत्येतेनैव पादेन प्रतिपाद्यते । यतो वेदाद्धर्म एवकर्तव्यतामात्रं यागादिविषयं निर्बभौ विभाति गम्यते । न पुनः कार्लविशेषः । फलस्योत्पत्तौ अधिकार
वाक्येषु कालविशेषाश्रवणात् विधितो हि फलं भवतीत्येतावद्गम्यते । कालावच्छेदो न २५ विधिः । धात्वर्थसंबन्धिनो हि कालविभागा भूतभविष्यद्वर्तमानाः । न चैतद्धात्वर्थफलं
किन्तु वैधम् । धात्वर्थफलं हि तदानीमेव निर्वर्तते । देवतोद्देशेन द्रव्यत्यागः । हविर्विकारादि । यदि कश्चित्कस्यचिदाज्ञाकारो भवति तेन प्रेष्यते गच्छ याहि ग्राममिति ' स आज्ञासंपादने प्रवृत्तः कदाचित्प्रारम्भ एव वेतनफलं लभते, कदाचिन्मध्ये, कदाचित्कृत
फ-व्यापारः । २ फ-विरुद्धश्च । ३ अ-क-ड-तस्यागोमरकःफलमिति ४ । अ-वैतालिक । फ-वैतानिक । ५फ-तत्र । ६ अ-क-ड-क्ष-कालाविशेषः ।
For Private And Personal Use Only