SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यायः] मनुस्मृतिः। श्रुतिस्मृत्युदितं सर्वमनुतिष्ठन् हिं मानवः ॥ इह कीर्तिमवाप्नोति प्रेत्य चानुत्तमं सुखम् ॥ ९॥ यो नास्तिकतया वैदिकानि निष्फलानि कर्माणीति व्यामुह्य न तद्नुष्ठाने प्रवर्तेत तस्य प्रवृत्त्यर्थ सुहृद्भूत्वादृष्टफलप्रदर्शनं करोति । तिष्ठतु तावदन्यत्फलम्। श्रुतौ स्मृतिषु च यदुदितमुक्तं धर्माख्यं कर्म तदनुतिष्ठन्निहासिंल्लोके यावज्जीवति तावत्कीर्ति प्रशस्यतां ५ पूज्यतां सौभाग्यं लभते । न्याय्ये पथि स्थितो महापुण्योऽयामिति सर्वेण पूज्यते । प्रियश्च सर्वस्य भवति । प्रेत्य देहान्तरे यस्मादन्यदुत्तमं नास्ति तत्सुखं प्राप्नोति। प्रायेण स्वर्गकामस्याधिकारः । निरतिशया च प्रीतिः स्वर्गस्तत उच्यते अनुत्तममिति । तस्मान्नास्ति कस्यापि दृष्टफलार्थिनोऽत्रैव प्रवृत्तिः पयुक्तेत्येवं परमेतत् ॥ ९॥ श्रुतिस्तु वेदो विज्ञेयो धर्मशास्त्रं तु वै स्मृतिः ॥ ते सर्वार्थेष्वमीमांस्ये ताभ्यां धर्मो हि निर्बभौ ॥१०॥ किमिदं शब्दार्थसम्बन्धस्मरणमभिधानकोशशास्त्र ‘मात्मभूः परमेष्ठी' त्यादिवन्न धर्मशास्त्रं येनेदमुच्यते । 'श्रुतिस्तु वेदो विज्ञेयो धर्मशास्त्रं तु वै स्मृति ' रिति उच्यते । इह सदाचारो न श्रुतिर्न स्मृतिर्निबन्धाभावात् । निबद्धाक्षरा हि स्मृतयः प्रसिद्धाः । अतस्यस्त स्मृतित्वमुपपादयति । यत्कार्य धर्मप्राप्त्यर्थं तद्धर्मशास्त्रम् । यत्र धर्मः शिष्यते कर्तव्य- १५ तया प्रतीयते सा स्मृतिः । निबन्धानिबन्धावप्रयोजकौ शिष्टसमाचारादपि धर्मस्य कर्तव्यतावगतिः । सोऽपि स्मृतिरेव । ततश्च यत्र कस्मैचित्कार्याय स्मृतेरुपादानं तत्र सदाचारोऽपि ग्रहीतव्यः । धर्मशास्त्रं चेत्स्मृतिर्वेदोऽपि सर्वमुख्यं धर्मशासनमिति तस्यापि स्मृतित्वप्रसङ्गस्तनिवृत्त्यर्थमाह । श्रुतिस्तु वेदो विज्ञेयः । यत्र श्रूयते धर्मानुशासनशब्दः सा श्रुतिः। २० यत्र च मयते सा स्मृतिः । तच्च समाचारेऽप्यस्तीत्यतः सोऽपि स्मृतिरेव । न हि तत्राप्यस्मृतवैदिके शब्दे प्रामाण्यम् । अथवा श्रुतिग्रहणं स्मृतेर्वेदतुल्यत्वार्थम् । किं पुनः श्रुतिस्मृत्योः समानं कार्य यत्समाचारेऽप्यन्येन प्राप्यते । उच्यते । ते सर्वार्थेष्वमीमांस्ये । ते श्रुतिस्मृती सर्वेष्वर्थेष्वत्यन्तासंभाव्येष्वपि दृष्टविषयैः प्रमाणैः । यथा तस्मादेव हिंसालक्षणात्पदार्थात्क्वचिदभ्युदयः क्वचित्प्रत्यवायः ‘सुरापानान्नरकः २५ सोमपानात्पापशुद्धिः' इत्यादौ पक्षप्रतिपक्षगमनेन विचारो न कर्तव्यः। आशङ्कापक्षान्तरसंभावनं मीमांसनम् । यथा हिंसा चेत्पापहेतुः स्वरूपाविशेषाद्वैदिक्यपि तथा भवितुमर्हति । अथ वैदिक्यभ्युदयहेतुलौकिपि तथा स्यात् । तद्रूपसमानत्वात् । यस्य यद्रूपं वेदादवगतं फ-धर्म । २ फ-प्रवर्तते । ३ क-ड-निबन्धाक्षरा । ४ अ-क-ड-तत्कार्यधर्म प्रास्यर्थ संकाधर्मशास्त्रम्। For Private And Personal Use Only
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy