________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
६६
मेधातिथिभाष्यसमलंकृता ।
[ द्वितीयः
करं भवेत् ” । अथवा योऽश्रद्दधानो नास्तिकतया तस्यानधिकारमाह । नास्तिकस्य हि न वैदिकं कर्म कुर्वतोऽप्यात्मा तुष्यति । अतस्तेन क्रियमाणमपि कर्म निष्फलमेव । अथवा सर्वकर्मविषयो भावप्रसाद उपदिश्यते । अनुष्ठानकाले क्रोधमोहशोकादि त्यक्त्वा प्रमुदितेन भाव्यम् । अतश्च शीलवदस्याः सर्वशेषतया धर्ममूलत्वाभिधानम् ॥ ६ ॥ यः कश्चित्कस्यचिद्धर्मो मनुना परिकीर्तितः ॥ स सर्वोऽभिहितो वेदे सर्वज्ञानमयो हि सः ॥ ७ ॥
१५
Acharya Shri Kailassagarsuri Gyanmandir
यदुक्तं वेदवित्संबन्धेन स्मृतेः प्रामाण्यं तदनेन प्रकटयति । यः कश्चिद्धर्मो वर्णधर्म आश्रमधर्मः संस्कारधर्मः सामान्यरूपो विशेषरूपश्च कस्यचिद्ब्राह्मणादेर्वर्णस्य । मनुना परिकीर्तितः । स सर्वोऽपि वेदे ऽभिहितः प्रतिपादितो यथा चैतत्तथा पूर्व श्लोक उक्तम् । १० सर्वज्ञानमयो हि सः । सर्वेषां ज्ञानानामदृष्टविषयाणां हेतुर्निमित्तं वेदः । सर्वैर्ज्ञानैर्निर्मित
इवेति ज्ञाने तद्विकारत्वमध्यारोप्य मयट् कृतः । यो हि यद्विकारः स तन्मयस्तत्स्वभाव इत्युच्यते । वेदश्च ज्ञानहेतुत्वात्तन्मय इति । यत्कार्यदर्शने कारणं कार्यस्वभावमिति । अथवा सर्वज्ञानाद्धेतोः । आगतः ‘ हेतुमनुष्येभ्य' (व्या. सू. ४-३ - ८१) इति मयट् क्रियते ॥ ७ ॥ सर्व तु समवेक्ष्येदं निखिलं ज्ञानचक्षुषा ॥ श्रुतिप्रामाण्यतो विद्वान् स्वधर्मे निविशेत वै ॥ ८ ॥
सर्वज्ञेयं कृतकाकृर्तकम् । शास्त्रगोचरं प्रत्यक्षादिगोचरमप्रत्यक्षाद्गिोचरम् । समवेक्ष्यैतज्ज्ञानचक्षुषा तर्कव्याकरणनिरुक्तमीमांसादिविद्यास्थानश्रवणचिन्तनात्मकेन । चक्षुरिव चक्षुः । शास्त्राभ्यासो ज्ञानस्य कारणत्वसामान्यात् । यथा चक्षुषा रूपं ज्ञायते एवं शास्त्रेण धर्म इति सामान्यम् । समवेक्ष्य सम्यग्विचारपूर्वकं निरूप्य । श्रुतिप्रामाण्यतो २० वेदप्रामाण्येन धर्मे निविशेत । धर्ममनुतिष्ठेत् ।
सर्वेषु हि शास्त्रेषु सम्यग्ज्ञातेषु वेदप्रमाण्यमेवावतिष्ठते । नाज्ञातेषु । तथाहि तानि शास्त्राणि निपुणत्वेन चिर्न्तयन् न तेषां प्रामाण्ये सम्यम्युक्तिरस्ति, वेदे त्वस्तीति निश्चिनोति । सर्वग्रहणं ज्ञेयविशेषणम् । निखिलशब्दश्च समवेक्ष्येति क्रियाविशेषणम् । निखिलं
1
समवेक्ष्य निःशेषेण पूर्वपक्षेण शास्त्रान्तराणां प्रामाण्ये वेदस्य वा प्रामाण्ये यावन्त्यः काश्चन २५ युक्तः प्रतिभासन्ते ताः सर्वाः प्रदर्श्य सिद्धान्तासिद्धैर्हेतुभिर्ययालक्षणलक्षितैर्निराकृत्य स्वपक्षसाधने चोपन्यस्ते वेदप्रामाण्यमवतिष्ठत इति निखिलशब्देन प्रदर्श्यते । तेन तौ निखिलसर्वशब्दौ पर्यायावपि भिन्नविषयत्वान्न पुनरुक्तौ । स्वग्रहणमनुवादः । यो ह्यन्यस्य धर्मः सोऽन्यस्याधर्म एव ॥ ८ ॥
१ अ-क-ड-क्ष 5- कृतकाकृतकशास्त्रगोचरम् । २ फ - चिन्तयन्ति । अ-क-ड-क्ष- चिन्तयन्तेषाम् ।
For Private And Personal Use Only