________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः]
मनुस्मृतिः। अद्यत्वे य एवंविधैर्गुणैर्युक्त ईदृशेनैव च हेतुना ग्रन्थमुपनिबन्धीयात्स उत्तरेषां मन्वादिवत्प्रमाणीभवेत् । इदानींतनानां तु यदेव तत्र तस्य बोधकारणं तदेव तेषामस्तीति न तद्वाक्यादवगतिः । इदानींतनो हि यावन्मूलं न दर्शयति तावन्नविद्वांसस्तद्वाक्यं प्रमाणयन्ति । दर्शिते तु मूले प्रमाणीकृते ग्रन्थे कालान्तरे यदि कथंचिदष्टकादिमूलतुल्यता स्यात्तदा तेषां शिष्टपरिग्रहान्यथानुपपत्त्या तन्मूलानुमानं युक्तम् ।।
__आचारश्चैव साधूनाम् । चशब्देन वेदविदामिति संबध्यते । पदद्वयेन शिष्टत्वं लक्ष्यते । शिष्टानां य आचारः सोऽपि धर्मे मूलम् । आचारो व्यवहारः अनुष्ठानम् । यत्र श्रुतिस्मृतिवाक्यानि न सन्ति शिष्टाश्च धर्मबुद्ध्याऽनुतिष्ठन्ति तदपि वैदिकमेव पूर्ववत्प्रतिपत्तव्यम् । यथा विवाहादौ कंकणबन्धनादि माङ्गलिकत्वेन यत्क्रियते, या च कन्यायास्तदहविवाहयिष्यमाणायाः प्रख्यातवृक्षयक्षचतुष्पथादिपूजा देशभेदेन तथा चूडासंख्या देश- १० भेदश्च या चातिथ्यादीनां गुर्वादीनां चानुवृत्तिः प्रियहितवचनाभिवादनाभ्युत्थानादिरूपा, तथा पृश्निसूक्तं तृणपाणयोऽधीयते अश्वमेधमश्वं यथा समपर्यन्तः ईदृश आचारः । एषोऽपि हि स्वभावभेदेन पुरुषाणां मनःस्वास्थ्यदौःस्थ्यादिभेदेनानेकरूपः प्रतिविशेषमानन्त्यादशक्यो ग्रन्थेनोपनिबद्धुम् । यदेव बहुशः प्रियेत्युपलक्षितं तदेवावसरान्तरे विपरीतं संपद्यते। तथा पर्युपासनं गृहस्थेनातिथेः क्रियमाणं कस्यचित्प्रीतिकरं ममायं भृत्यवत्तिष्ठति । अन्य- १५ स्त्वन्यथा नियन्त्रणया न लभ्यत आसितमस्मिन्सनिहित इति पर्युपासनयैव विरज्यति । न तत्र सामान्यतः शक्यं वेदानुमानं न विशेषतः । अष्टकादीनां तु नियतैकरूपसमस्तप्रयोगस्मरणमित्येष स्मृत्याचाराणां भेदः । ___आत्मनस्तुष्टिरेव च धर्ममूलमित्यनुषज्यते। वेदविदां साधूनामिति च । अस्याश्च धर्ममूलत्वप्रामाण्येनैवेत्याहुः । यत्र ह्येवंविधानामनुष्ठेयेऽर्थे मनः प्रसीदति द्वेषो न भवति स २० धर्मः । ननु च यस्य प्रतिषिद्ध एवार्थे मनः प्रसीदेत्स धर्मः प्राप्नोति । विहिते च किंकथिकास्यात् स न धर्म इति । एवमेतदीदृशानां महात्मनां मतिमतां महाप्रभावो मनःप्रसादो येनाधर्मोऽपि धर्मतामेति धर्मश्चाधर्मतां न रोगद्वेषादिदोषवताम् । यथा रुमायां यत्किचिद्रव्यं प्रविशति तत्सर्व लवणसात्संपद्यते एवं वेदविदा सहसोत्पन्नेन मनःपरितोषेण सर्व निर्मलीक्रियते । अतो यथा प्रतिषिद्धमपि ग्रहणं षोडशिनि विधिनाऽनुष्ठीयमानं २५ न दोषाय । न चात्र ग्रहणवाद्विकल्पः । प्रतिषेधा ह्यात्मतुष्टिव्यतिरेकेणान्यत्र विषये व्यवस्थाप्यन्ते । अथवा नैव तेषामधर्मे आत्मा परितुष्यति । यथा विषघ्नीमेवौषधीं नकुलो दशति नान्याम् । अत उच्यते " नकुलो या यां दशति सा सा विषन्नीति"।
___ इह भवन्तश्चाहुः ये वैकल्पिकाः पदार्थास्तेषु यस्मिन्पक्षे मनः प्रसीदति स पक्ष ३० आश्रयितव्यः । वक्ष्यति च द्रव्यशुद्धौ प्रायश्चित्तेषु च " तस्मिंस्तावत्तपः कुर्याद्यावत्तष्टि
१ फ-तस्याप्त बोध कारणम् । २ फ-आसितु । ३ फ-धर्मम् । फ- किंकथितं ।
For Private And Personal Use Only