SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मेधातिथिमाष्यसमलंकृता । [ द्वितीयः " एक एव सुहृद्धर्मो निधनेऽप्यनुयाति यः" इति । क्रियाया अनुष्ठानसमनन्तरमेव नाशात्कुतः कालान्तरान्वयः । __ अत्र चोद्यते । ननु सर्व एव श्रुतिस्मृतिविहितो ऽर्थो धर्मस्य मूलं शीलस्यापि तत्रान्तर्भावाद्भेदेनोपादानमनर्थकं विधायिष्यते च " इन्द्रियाणां जये योगं समातिष्ठेद्दिवानिशम् । यस्मिञ्जिते जितावेतौ भवतः पञ्चकौ गणाविति " । अयमेव मनसो जयो यो रागद्वेषयोः परित्याग इति वक्ष्यामः । केचिदाहुरादरार्थः पृथगुपदेशः । एतद्धि सर्वकर्मणामनुष्ठान उपयुज्यते । स्वप्रधानं च अग्निहोत्रादिकर्मवत् । सर्ववर्णधर्मश्चायं सर्वाश्रमधर्मश्च । तैः सामान्यधर्मलक्षणावसरेऽस्मिन्नुच्यते। ___वयं तु ब्रूमः । समाधिः शीलमुच्यते । तथाहि — शीलसमाधाविति ' । धातुषु १० पठ्यते । समाधानं च मानसो धर्मः । यच्चेतसोऽन्यविषयव्याक्षेपपरिहारेण शास्त्रार्थनि रूपणप्रवणता तच्छीलमुच्यते। द्वन्द्वश्वायमितरेतरयोगे तेन परस्परसापेक्षयोः स्मृतिशीलयोः धर्मप्रति प्रामाण्यमेवाभिप्रेतं न पूर्ववन्निवर्तकत्वम् । एतदुक्तं भवति । समाधानवती या स्मृतिः सा प्रमाणं न स्मृतिमात्रम् । तेन सत्यपि वेदार्थवित्त्वे यदेतत्पराणां स्मरणं न तद्धर्ममूलं भ्रान्त्यादिसंभवाच्छास्त्रार्थावधानशून्यानां च शब्द इह पठ्यते स तद्विदा१५ मित्यस्मादनन्तरं द्रष्टव्यः वृत्तानुरोधात्त्वेवं पठितः। समुच्चयार्थश्चासौ पूर्वप्रकृतस्य च समुच्चेतव्यस्याभावात्ततीये पादे यत्साधूनामित्युक्तं तत्समुच्चिनोति । अतस्त्रीणि विशेषणान्यत्राश्रीयन्ते । विदुषामुपाध्यायादागमितविद्यानां तथा तदभ्यासपराणामनुष्ठानपराणां च स्मृतिः प्रमाणम् । एतत्सर्वं मन्वादीनामासीदिति स्मर्यते । नान्यथा तत्कृतेषु ग्रन्थेषु शिष्टानां परिग्रहोपपत्तिः । यद्येवं स्पष्टमेव वक्तव्यम् । मन्वादिवाक्यानि धर्ममूलमिति किमेतेन लक्षणेन । सत्यम् । यः कथंचित्तत्प्रामाण्ये विप्रतिपाद्येत तं प्रति न्यायशास्त्रप्रसिद्धं प्रामाण्यहेतुकथनमेतत् । अद्यत्वेऽपि यस्यैतद्धेतुसद्भावः सोऽपि मन्वादिवबाह्यवाक्यः स्यात् । तथा च विदुषां प्रायश्चित्तायुपदेशे तथा भूता एव परिषत्त्वेन प्रमाणीभवन्ति “ एकोऽपि वेदविद्धर्म यो व्यवस्येद्विजोत्तम ” इति । अत एव स्मर्तृपरिगणना मनुर्विष्णुर्यमोऽङ्गिरा इति २५ निर्मूला। तथा हि पैठीनसिबौधायनप्रचेतःप्रभृतयः शिष्टैरेवंरूपाः स्मर्यन्ते । न च परिगणनायामन्तर्भाविताः । सर्वथा यामविगानेन शिष्टाः स्मरन्ति वदन्ति वा । एवंविधैर्गुणैर्युक्तं तेन चैतत्प्रणीतमिति तस्य वाक्यं सत्यपि पौरुषेयत्वे धर्मे प्रमाणं स्यादिति । " स्मृतिशीले च तद्विदाम्" इत्यस्यार्थः। ड-अविदुषाम् । For Private And Personal Use Only
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy