________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः
मनुस्मृतिः।
"या सिद्धरूप एकस्मिन् क्रियान्तरगतिर्भवेत्।न सा स्वरूपनाशाय विश्वजित्यधिकारवत् ॥ " प्रतिपन्ने विधौ युक्तं तत्संबन्धार्थकल्पनम् । गतिर्मन्त्रार्थवादेभ्यो न दृष्टा चेद्विधेः क्वचित् ॥ “लिङ्गादिगम्यं भगवान्विधि स्मरति पाणिनिः। न शक्तास्ते विधिं वक्तुं सिद्धवस्त्वभिधायिनः॥ "व्याख्येयो गुणवादेन योऽर्थवादादतत्परात्। अर्थोऽधिगन्तुमिष्येत कथं स्यात्तस्य सत्यता॥ "भिन्द्याद्वाक्यं न प्रतिष्ठाः साकांक्षा रात्रयो यतः। विशेषे तद्गते युक्ता वाक्यशेषावगम्यता॥ ५ "स्तेयादीनां निषेधेऽपि विध्यन्तरगतिध्रुवा । ततश्च वाक्यभेदः स्यान्नोपन्यासस्ततः समः ॥ "वाचः स्तोमे प्रयुज्यन्ते सर्वे मन्त्रविधिश्रुतेः । नाष्टकादौ विशेषोऽस्ति हेतुर्मन्त्रस्य बोधने ॥ "विना सामान्यसंबन्धाल्लिङ्गं च विनियोजकम् । न च नास्तस्य संबन्धो विना प्रकरणादिभिः॥ "परिहारं ब्रुवन्त्यत्र केचित्तन्मूलवादिनः । रात्रिषु प्रतितिष्ठन्तीत्यसत्स्वेव लिङादिषु ॥ “पञ्चमेन लकारेण तदर्थगतिरिष्यते । पतन्ति न म्लेछित वा इत्यादिषु तथा भवेत् ॥ १० "ऋचां विधिर्वाचिस्तोमे सर्वदाशतयीरिति । दशम्यो मण्डलेऽभ्यस्ता वर्जिताः पठिता बहिः॥ "सामान्यसंबन्धकारी समाख्यैवेति गीयते। समाख्या गृह्यमन्त्राणां तेन तेनास्ति कर्मणाम् ॥ " पञ्चाग्निविद्याशेषत्वं हिरण्यस्तेननिन्दया । स्तेनो हिरण्यवाक्यस्य न विना तन्निषेधतः ॥ "शेषत्वावगीर्थात्तु तदकर्तव्यता तु या । द्रढिम्ने शेषतायाः सा न पुनस्तद्विरोधिनी ॥ "नित्यानुमेयपक्षो यो वाऽप्यागमपरंपरा । तयोरन्धप्रवाहत्वं न भेदः कश्चिदीक्ष्यते ॥" १५ एवं च सति या गौतमेन प्रत्यक्षविधानता गार्हीस्योक्ता सा शब्दस्याव्यवहितव्यापाराभिप्रायेण । श्रवणानन्तरं योऽर्थः प्रतीयते स प्रत्यक्षः। यस्तु प्रतीतेऽर्थे तत्सामर्थ्यपर्यालोचनया गम्यः स विलम्बितत्वात्प्रतिपत्तेर्न प्रत्यक्ष इति सर्वमुपपन्नम् ।
स्मृतिशीले च तद्विदाम् । स्मृतिश्च शीलं च स्मृतिशीले । शीलं रागद्वेषप्रहाणमाहुस्तच्च धर्ममूलं वेदस्मृतिवन्न ज्ञापकतया किंतु निर्वर्तकत्वेन । रागद्वेषप्रहाणाद्धि धर्मो २० निर्वर्तते ॥
ननु च श्रेयःसाधनं धर्म इत्युक्तम् । रागद्वेषप्रहाणमेव च तत्स्वभावम् । तत्रासति व्यतिरेके किमुच्यते रागादिप्रहाणाद्धर्मो निर्वर्तत इति । उक्तमस्माभिधर्मशब्दोऽयं स्मृतिकारैः कदाचिद्विधिनिषेधविषयभूतायां क्रियायां प्रयुज्यते । कदाचित्तद्नुष्ठानजन्य आफलप्रदानावस्थायिनि कस्मिंश्चिदर्थे । तस्य च सद्भावे शब्द एवं प्रमाणम् । यदि हि २९ यागस्तथाविधं वस्त्वनुत्पाद्य विनश्येत्तदा कालान्तरे कुतः फलोत्पत्तिः । तदेतद्वस्तु धर्मशब्देनात्राभिप्रेतं तस्य शीलं मूलमिति न किंचिद्नुपपन्नम् । तदभिप्राया एव व्यवहाराः ।
फ-रूपान्तरगतिर्भवेत् । २ क-ड-भियुनतम् । ३ ड-क-क्ष-स्तेनरदीनां । । ड-क-क्षध्रुवम् । ५ फ-न च नास्त्यस्य । ६ फ-मोऽर्थातु । ७ ड-क-क्ष-अभिनिर्वर्तते।
For Private And Personal Use Only