________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मेघातिथिमाष्यसमलंकृता।
[द्वितीयः कल्पयन्ति । वाऽसतोरुत्पत्त्यधिकारयोः प्रकाशनमष्टकायाः संभवतीत्युत्पत्त्यधिकारविनियोगप्रयोगबोधका मन्त्राः । एवं मान्त्रवर्णिकाश्च विधयोऽप्युपगम्यन्ते । यथाऽऽघारे देवताविधिश्चतुष्पाद्धिधर्मोऽभ्युपगतस्तत्राल्पतरांशः श्रुतः सकलेतरांशबोधहेतुस्तथाविध एव विधौ संबन्धग्रहणादिति । सर्वथा तावत्संभवति वेदसंयोगः ।
मनुर्बहुभिर्बहुशाखाध्यायिभिः शिष्यैरन्यैश्च श्रोत्रियैः संगतस्तेभ्यः शाखाः श्रुत्वा ग्रन्थं चकार । ताश्च मूलत्वे प्रदर्श्य ग्रन्थं प्रमाणीकृतवान् । एवमन्ये तत्प्रत्ययाद्नुष्ठानमादृतवन्तो न मूलोपलम्भे यत्नं कुर्वन्ति । अस्माकं चैतदनुमानम् । अतो विरोधे सत्यपि तुल्ये श्रौतत्वे बाधोपपत्तिः । प्रत्यक्षया श्रुत्या प्रयोगसंपत्तौ श्रुत्यन्तरं प्रत्याकांक्षैव नास्ति । यथा सामिधेनीषु साप्तदश्य पाञ्चदश्ययोः पाञ्चदश्येन प्रकृतिरवरुद्धा साप्तदश्यं प्रत्यक्षश्रुतमपि नाकांक्षति । आभिधानिको ह्यर्थः सन्निकृष्यतेऽभिहितार्थाकांक्षावगम्यं प्रत्ययं विप्रकर्षादुर्बलं बाधते । न चैतावताऽप्रामाण्यापत्तिः । यथा प्राकृतान्यङ्गानि विकृतिषु चोदकप्राप्तनि वैकृतिकैर्विरुद्धयमानानि बाध्यन्ते तद्वदेव द्रष्टव्यम् । यत्र संप्रदायाविच्छेदस्तत्र च परंपरापत्तिः। न हि तत्र कस्यचित्प्रमाणं प्रवृत्तम् ।
नित्यानुमेयपक्षोऽपि संप्रदायपक्षान्नातीव भिद्यते । मन्वादिस्मरणस्य वयं मूलं परी१५ सितुं प्रवृत्ताः । यदि च तेषामप्यसावनुमेयो वेदो वयमिव न ते स्मर्तारः । नच यः
पदार्थो न कस्यचित्प्रत्यक्षस्तस्यानुमेयतासंभवत्यन्वयासंभवात् । क्रियादिषु सामान्यतोऽस्त्येव संबन्धदर्शनम् । यदि वाऽर्थापत्त्यवसेयाः क्रियादयो न चेहान्यथाऽनुपपत्तिरस्ति । तस्मादस्ति मन्वादीनामस्मिन्नर्थे वेदसंबन्धो न पुनरयमेव प्रकार इति निर्धारयितुं शक्यम् । द्रढीयसी कर्तव्यताऽवगतिर्वेदविदां वेदमूलैव युक्ता कल्पयितुं न भ्रान्त्यादिमूलेत्यवगत्यनुरूपकारणकल्पना कृता भवति । तत्रोत्सादविप्रकीर्णमंत्रार्थवादे प्रत्यक्षवेदानां कारणानां संभवात्कल्प्यत्वमुपशेते । प्रत्यक्षोऽपि विधिः क्वचिन्मूलत्वेन दृश्यते । न मलवद्वाससा सह संवसेदिति । स चाध्ययने चोपनयने च पठ्यते । तदेतल्लेशतोऽस्माभिरुक्तम् । विस्तरस्तु स्मृतिविवेकाज्ज्ञातव्यः । "शाखाः काश्चित्समुत्सन्नाः पक्षो नैष मतो मम । पक्षेऽस्मिन्न प्रमाणं हि बह्वदृष्टं प्रसज्यते ॥ "उपपन्नतरः पक्षो विक्षिप्तानां ततस्ततः। उत्पत्त्यादि समाहारः प्रायशो दृश्यते ह्यदः ॥ "अनेकशिष्योपाध्यायैः श्रोत्रियैराहतो परैः। शक्तो रचयितुं श्रुत्वा शाखां तां तां कुतश्चन ।। " उपपन्नम्तदानीं च दृष्टमूलैः परिग्रहः। निश्चयोऽस्माकमप्यद्य यथा संभवतः स्थितः॥ "प्रयोगद्योतका मन्त्रा द्योतनं तस्य नामतः । नर्तेऽधिकारोत्पत्तिभ्यां प्रयोगस्यास्ति संभवः।। "विशिष्टदेवतालाभ आघारे मान्त्रवर्णिकः । प्रकाशकत्वान्मन्त्रस्य तन्निर्वहणहेतुकः ।। १ड क क्ष-स न वा । २ फ-मूलत्वेन । ३ फ-सम्प्रदायविच्छेदः ।
For Private And Personal Use Only