________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः
मनुस्मृतिः। विशेषनिर्धारणे तु न किंचित्प्रमाणं न च प्रयोजनम् । उत्सादोऽपि संभाव्यते । दृश्यन्ते हि प्रविरलाध्येतृका। अद्यत्वेऽपि शाखाः । ताभ्यः संभाव्यभाव्युत्सादाभ्यो विधिमात्रमर्थवादविरहितमुद्धृत्योपनिबद्धं स्मृतिकारैरिति कैश्चिदभ्युपगम्यते । “ब्राह्मणोक्ता विधयस्तेषामुत्सन्नाः पाठाः प्रयोगादनुमीयन्त" इत्यापस्तम्बः (१।४।१०) । अत्र तु यैवं महाप्रयोजना शाखा यस्यां सर्वे स्मार्ता गायश्च सर्ववर्णाश्रमधर्मा आम्नातास्तस्या ५ उपेक्षणमसंभाव्यम् । सर्वाध्येतॄणां चोत्साद इत्यादि बह्वदृष्टं प्रकल्प्यम् ।
विप्रकीर्णानां त्वर्थवादगहनानां क्रत्वर्थपुरुषार्थतया च दुर्विज्ञानानां प्रयोगोन्नयनमभियुक्तानां न्यायतो निश्चितार्थानां घटते । अस्मिंस्तु पक्षे विरोधद्वयस्यापि प्रत्यक्षश्रौतत्वाद्विकल्पेन स्मृतेर्बाधः । स च विशिष्टानां नाभिप्रेतः। स्मृतिकाराश्च बाधमनुमेयश्रुतिमूलत्वं च प्रतिपन्नाः । एवमप्याह गौतमः (३।३५)। “ऐकाश्रम्यं त्वाचार्याः प्रत्यक्षविधानागार्ह- १० स्थ्यस्येति" । यदि हि मन्वादीनां प्रत्यक्षास्ताः शाखा अभवन्केयं वाचोयुक्ति गार्हस्थ्यस्य प्रत्यक्षविधानादिति' । ननु सर्व एवाश्रमाः प्रत्यक्षविधाना स्वमतमेव चैतद्गौतमेनाचार्यापदेशेनोपदिष्टं ' तस्याश्रमविकल्पम् ' ( ३।१ ) । इत्याद्युपक्रम्यानेनोपसंहृतत्वात् ।
मन्त्रार्थवादप्रमाणभावोऽप्यविरुद्धः । यद्यप्यर्थवादा विध्युद्देशस्तुतिपरा न स्वार्थस्य विधायकास्तथापि केषांचिदन्यपरतैव नोपपद्यते यावत्स्वार्थविषयो विधिर्नावगमितः यथा १५ स्तनो हिरण्यस्य सुरां पिबंश्चेत्यादेः पञ्चाग्निविधिशेषतैवमेतावतैव नोपपद्यते यावद्धिरण्यस्तेयादेः प्रतिषधो नावगमितः । य एतां विद्यामधीते स हिरण्यस्तेयाद्यप्याचरंस्तैश्च संवसन्न पतति अन्यथा तु पततीत्यवगतिरविरुद्धा । ___अथ विध्युद्देशो विधेः प्रतिपादको नार्थवाद इति केनैषा परिभाषा कृता । ' एते पतन्ति चत्वार' इत्यत्राप्याख्यातश्रवणमस्ति। लिङ्गादयो न सन्तीति चेत् 'प्रतितिष्ठन्तीति' २० रात्रिष्वपि नैव लिङ्गश्रुतिरस्ति ।
अथ तत्राधिकाराकांक्षायामेकवाक्यतायां सत्यां पञ्चमलकारादिकल्पनया विध्यवसायः एवमत्रापि भविष्यति । बहवश्च द्रव्यदेवताविधयोऽर्थवादावगम्याः सन्ति । तत्र यस्य विधेः शेषा अर्थवादास्तद्विधिनैव द्रव्यदेवतादेरपेक्षितत्वाद्विशेषसमर्पणमात्रे व्यापारान्तर्गतविशेषावगतिरर्थवादाधीना न दोषाय । इह तु तदसंबद्धस्य विध्यन्तरस्येष्यमाण- २५ त्वाद्वाक्यभेदापत्तिरतश्च न प्रकृतिशेषता । तदभावे च तन्मूलाप्रतिषेधावगतिर्न स्यादतश्च ' अक्ताः शर्करा उपदधाति' 'तेजो वै घृतमि'त्यनेनं वैषम्यमित्याहुः । तदसत् । सत्यप्यर्थान्तरत्वे तदेकवाक्यतामूलत्वादस्याऽवगते स्ति वाक्यभेदाभिचोद्यापत्तिः । मन्त्राः प्रयोगप्रकाशत्वेन रूपादेवावगतास्तस्य प्रयोगस्यान्यतोऽसिद्धेः प्रकाशकत्वनिर्वहणाय प्रकाश्यं
१ क ड क्ष-व्यापारा । तद्गतविशेषावगतिरर्थवादाधीना न दोषाय । २ ड क्ष-अवैषम्यम् ।
For Private And Personal Use Only