SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मेधातिथिमाष्यसमलंकृता। [ द्वितीयः न्यतोऽष्टकादिकर्तव्यतामवगच्छामः । तच्च मन्वादीनामीदृशं स्मरणं तत्कृतेभ्यो वाक्येभ्यः स्मृतिपरंपरायातेभ्योऽवसीयते । तस्माच्च स्मरणानुभूतोऽयमर्थः प्रमाणेन मन्वादिभिरिति निश्चिनुमो यत एते स्मरन्ति । नह्यननुभूतस्य स्मरणोपपत्तिः । ननु कल्पयित्वा ग्रन्थमुपनिबध्नीयुरननुभूतकेन प्रमाणेन । यथोत्पाद्य वस्तु कथानकं केचन कवयः कथयेयुः । अत्रोच्यते । भवेदेवं यद्यत्र कर्तव्यतोपदेशो न स्यात् । कर्तव्यतोपदेशो ह्यनुष्ठानार्थः । न च केचिंत्स्वेच्छया कल्पिते बुद्धिपूर्वव्यवहारिणोऽनुष्ठातुमर्हन्ति । भ्रान्त्याऽप्यनुष्ठानसिद्धिरिति चेत् स्यादप्येकस्य भ्रान्तिः सर्वस्य जगतो भ्रान्ति र्यावत्संसारभाविनी चेत्त्यलौकिकी कल्पना। न च संभवति मन्वादीनां वेदमूलत्वे भ्रान्त्यादेरवसरः । अत एव प्रत्यक्षतो मन्वादयो धर्मान्ददृशुरिति नाभ्युपगम्यते । “ इन्द्रियैरर्थानां सन्निकर्षे यज्ज्ञानं तत्प्रत्यक्षम् " । न च धर्मस्येन्द्रियैः सन्निकर्षः संभवति तस्य कर्तव्यतास्वभावत्वात् । असिद्धं च कर्तव्यम् । सिद्धवस्तुविषयश्च सन्निकर्षः। अनुमानादीनि तदात्वे यद्यप्यसन्तमर्थमवगमयन्ति पिपीलिकाण्डसंचारेण हि भविष्यन्ती वृष्टिमनुमिमते तथापि न तेभ्यः कर्तव्यतावगतिः । तस्मात्कर्तव्यतास्मरणस्यानुरूपकारण कल्पनायां वेद एवोपदिश्यते । स च वेदोऽनुमीयमानो मन्वादिभिरुपलब्धः । इदानी१५ मुत्सन्ना सा शाखा यस्याममी स्मार्ता धर्मा आसन् । तथा किमेका शाखाऽथ बह्वयः । तास च कश्चिदष्टकादिः कस्यांचिदित्येतदनुमानं प्रवर्तते । अथाद्यत्वे पठ्यन्त एव ताः शाखाः किंतु विप्रकीर्णास्ते धर्माः कस्यांचिच्छाखायामष्टकादीनां कर्मणामुत्पत्तिः कस्यांचिद्व्यं कचिद्देवता क्वचिन्मन्त्र इत्येवं विप्रकीर्णानां मन्वादयोऽङ्गोपसंहारं सुखावबोधार्थं चक्रुः । २० अथ मन्त्रार्थवादलिङ्गमात्रप्रभवा एते धर्माः । अथायमनादिरनुष्ठेयोऽर्थोऽविच्छिन्न पारंपर्यसंप्रदायायातो वेदवन्नित्य उतास्मदादीनामिव मन्वादीनामपि परप्रत्ययानुष्ठानो नित्यानुमेयश्रुतिक इत्येवमादि बहुविकल्पं विचारयन्ति विवरणकाराः । एतावांस्तु निर्णयो वैदिकमेतदनुष्ठानम् स्मार्तानां वैदिकैर्विधिभिर्व्यतिषङ्गावगमाद्नुष्ठातृणां च तदृष्ट्वानुष्ठानात् । व्यतिषंगश्च दर्शितः । क्वचिद्वैदिकमङ्गं प्रधानं स्मार्त क्वचिदेतदेव २५ विपरीतं क्वचिदुत्पत्तिः क्वचिदधिकारः क्वचिदर्थवाद इति । एवं सर्व एव स्मार्ता वैदिकैर्व्यतिषक्ताः। निपुणतश्चैतन्निीतमस्माभिः स्मृतिविवेके"स्मार्तवैदिकयोर्नित्यं व्यतिषङ्गात्परस्परम् । कर्मतः कर्मतो वाऽपि वियुज्यते न जातु तौ ॥ "प्रत्यक्षश्रुतिनिर्दिष्टं येऽनुतिष्ठन्ति केचन । त एव यदि कुर्वन्ति तथा स्याद्वेदमूलता ॥ "प्रामाण्यकारणं मुख्यं वेदविद्गिः परिग्रहः । तदुक्तं कर्तृसामान्यादनुमानं श्रुतीः प्रति ॥ १फ-अननुभूयैव केनचित्प्रमाणेन। २ फ-केनचित्। ३ (जैमिनी-अ. १ सू. ) ४ क-ड-क्षस्मरणकल्पनायां वेद एवोपशेते । For Private And Personal Use Only
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy