________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः]
मनुस्मृतिः।
धर्ममूलभावम् । गुणविधयश्च प्रायशो नामाश्रय एव । “ शरदि वाजपेयेन यजेत स्वाराज्यकामो वाजपेयेनेति " । तस्मात्सिद्धं कृत्स्नस्य वेदस्य धर्ममूलत्वम् ।
__ अन्ये तु श्येनादिवाक्यानां धर्मोत्पत्तिमत्त्वाभावमाशङ्कमाना निषेधानां च " न लशुनं भक्षयेदि " त्यादीनामखिलग्रहणं मन्यते । अभिचारा हि श्येनादयो मारणात्मानो हिंसारूपाः । क्रूरत्वाच्च हिंसाया अभिचाराणां च प्रतिषेधादधर्मत्वम् । अतो न कृत्स्नो ५ वेदो धर्ममूलम् । कर्तव्यश्च धर्म उक्तः । ब्रह्महत्यादिश्च न कर्तव्यः । अतः कथं तद्वाक्यानि धर्ममूलं स्युः ? किंच येऽपि पशुयागा अग्नीषोमीयादयस्तेऽपि हिंसासाधकत्वादूरापेतधर्मभावाः । हिंसा हि पापमिति सर्वप्रवादेष्वभ्युपगमः । उक्तं च यत्र प्राणिवधो धर्म अधर्मस्तत्र कीदृशः ' । कथं पुनरियमाशङ्काऽपनुद्यते ? अखिलग्रहणात् । न ह्यस्यान्यत्प्रयोजनमस्ति । हेतु!क्त इति चेदागमग्रन्थोऽयं सिद्धमर्थमाह । हेत्वार्थनो मीमांसातो १० विनीयन्ते । अस्माभिरुक्तं य आगममात्रेण प्रतियन्ति तान्प्रत्येतदुच्यते । विवरणकारास्तु युक्तिलेशमात्रं दर्शयन्ति।
यदुक्तं श्येनादयः प्रतिषिद्धत्वादधर्म इति तत्सत्यम् । तथापि प्रतिषिद्धेष्वपि तेषु योऽत्यन्तप्रवृद्धद्वेषो न हिंस्याद्भूतानीत्यतिक्रान्तनिषेधाधिकारस्तस्य ते शत्रुवधलक्षणां प्रीतिमनुष्ठीयमानां निवर्तयन्तीत्येतावताऽशेन वेदस्य धर्ममूलत्वं श्येनादिवाक्येष्वपि न विह- १५ न्यते । निषेधेष्वपि यो रागतः प्रवृत्तो हनने स निषेधे नियुज्यते । एतदेव निषेधस्यानुष्ठानं यन्निषिध्यमानस्याननुष्ठानम् । अग्नीषोमीयादौ तु नैव हिंसाप्रतिषेधोऽस्ति द्वेषलक्षणाया लौकिक्या हिंसाया निषेधेन निषिद्धत्वात् । शास्त्रीया तु विधिलक्षणा न निषेधेन विषयीक्रियते । लौकिक्यां चरितार्थत्वान्निषेधस्य । न च सामान्यतो दृष्टेन हिंसात्वाल्लौकिकहिंसावद्वौदिक्याः पापहेतुत्वमापादयितुं शक्यते । यतो न हिंसात्वं पापहेतुत्वे कारणं अपि २० तु प्रतिषेधेन विषयीकरणम् ।
न चात्र प्रतिषेधोऽस्तीत्युक्तम् । कैश्चित्तु मूलशब्दः कारणपर्यायो व्याख्यायते । धर्मस्य वेदो मूलं प्रतिष्ठा कारणं साक्षात्प्रणाड्या च । 'खाध्यायमधीयीत' 'ऋग्वेदं धारयन्विप्र' इत्यादि चोदनासु साक्षात् । अग्निहोत्रादिकर्मस्वरूपज्ञापकतया प्रणाड्या ।
स्मृतिशीले च तद्विदाम्। अनुभूतार्थविषयं विज्ञानं स्मृतिरुच्यते । तच्छब्देन वे- २५ दः प्रत्यवमृश्यते । तं विदन्ति तद्विदः । वेदार्थविदामिदं कर्तव्यमिदं न कर्तव्यमिति यत्स्मरणं तदपि प्रमाणम् । ननु च स्मृतिर्न प्रमाणमित्याहुः सा हि पूर्वप्रमाणावगतप्रमेयानुवादिनी नाधिकमर्थ परिच्छिनत्तीति वदन्ति । सत्यम् । ये स्मरन्ति तेषामाद्यमेव तत्र शब्दादि प्रमाणं नात्मीया स्मृतिः । अस्माकं तु मन्वादिस्मृतिरेव प्रमाणम् । नहि वयं तामन्तरेणा
१फ-प्रतिपत्तारः।
-
For Private And Personal Use Only