________________ Shri Mahavir Jain Aradhana Kendra www.kobalrm.org Acharya Shri Kalassagarsuri Gyanmandir तानि सर्वाणि नश्यतु प्रदक्षिणपदेपदे // इति तिस्रः प्रदक्षिणाः कृत्वा " ॐ प्रपन्नं पाहि मामीश भीतं मृत्युग्रहार्णवात् // " इति बदन साष्टांग प्रणमेत् // 10 // "ॐ नानासुगंधिपुष्पाणि यथाकालोद्भवानि च // पुष्पांजलिं मया दत्तं गृहाण परमेश्वर // 1 // " इति पुष्पा जलिः।।११॥इति पुष्पांजलि दत्त्वा ततःस्तुतिपाठेन स्तुत्वा बद्धाजलिपूर्वकं प्रार्थयेत्॥तथा च।"ॐ ज्ञानतोऽज्ञानतो वाऽथ यन्मया क्रियते - विभो। मम कृत्य मिदं सर्वमिति देव क्षमस्व मे // 3 // अपराधसहस्राणि क्रियतेऽहनिशं मया / / दासोयमिति मां मत्वा क्षमस्व परमेश्वर // 2 // अपराधो भवत्येव सेवकस्य पदेपदे // कोपरः सहतां लोके केवलं स्वामिनं विना॥३॥भूमी स्खलितपादानां भूमिरेवावलंबनम् // त्वयिजातापराधानां त्वमेव शरणं प्रभो // 4 // " इति बद्धांजलिपूर्वकं संप्रार्थ्य"ॐ यदुक्तं यदि भावेन पत्रं पुष्पं फलं जलम् // निवेदितं च नैवेद्यं गृहाण मानुकंपय // 1 // " इति पठित्वा देवस्य दक्षिणकरे पूजार्पणजलं दद्यात् / / ततो मालामादाय सर्वदेवोपयोगि पद्धतिमार्गण मालायाः संस्कारान् कृत्वा अशक्तश्चेत् “ॐ ह्रीं मालेमाले महामाये सर्वशक्तिस्वरूपिणि / / चतुर्वर्गस्त्वयि न्यस्तस्तस्मान्मे सिद्धिदा भव // 1 // " इति मालां संपार्छ / “ॐ अविनं कुरु माले त्वं सर्वकार्येषु सर्वदा” इति मंत्रण दक्षिणहस्ते मालामादाय ) हृदये धारयन् स्वेष्टदेवतां ध्यात्वा मध्यमांगुलिमध्यपर्वणि संस्थाप्य ज्येष्ठाग्रेण नामयित्वा एकाग्रचिनो मंत्रार्थ स्मरन् यथाशक्ति मूलमंत्र जपेत् // नित्यशः समाना एवं जपाः कार्या न तु न्यूनाधिकाः। ततो जपति "ॐ वं माले सर्वदेवानां प्रीतिदा शुभदा मम // शुभं कुरुष्व मे भद्रे यशो वीर्यं च सर्वदा // तेन सत्येन सिद्धि मे देहि मातर्नमोस्तु ते // ३॥"ॐ ह्रीं सिद्धयै नमः” इति मालांच शिरसि निधाय गोमुखीरहस्ये स्थापयेत् // नाशुचिः स्पर्शयेत् / / नान्यं दद्यात् // अशुचिस्थाने न निधापयेत् // स्वयोनियत गुप्तां For Private And Personal Use Only