________________ Shri Mahavir Jain Aradhana Kendra www.kobalrm.org Acharya Shri Kalassagarsuri Gyanmandir Kal(नाभिमानम् ) कुंडानां कल्पयेदंत भिमंबुजसन्निभाम् / तत्तत्कुंडानुरूपं वा मानमस्या निगद्यते॥२२३॥मुष्टयरत्न्येकहस्तानां नाभिरुत्से तारतः। द्वित्रिवेदांगुलोपतां कुंडेप्यन्येषु वर्द्धयेत्॥२२२॥ यवयवक्रमेणैव नाभिं पृथगुदारधीः।।योनिकुंडे योनिमजकुंडे नाभिं विवर्जयेत्॥ 223 / / नाभिक्षेत्र त्रिधा भित्त्वा मध्ये कुर्वीत कर्णिकाम्॥बहिरंशद्वयेनाष्टौ पत्राणि परिकल्पयेत्।।२२४॥(शाकल्यप्रमाणं महार्णवे ) Kalतिलास्तु द्विगुणाः प्रोक्ता यवेश्यश्चैव सर्वदा // अन्ये सौगंधिकाः स्निग्धा गुग्गुल्वादियवैः समाः // 225 // (त्रिकारिकायाम) आयुःक्षयं / यवाधिक्यं यवसाम्यं धनक्षयम् // सर्वकामसमृद्ध्यर्थं तिलाधिक्यं सदैव हि // 226 // (अथ द्रव्यभेदेनाहुतिप्रमाणं शारदातिलके) अथात्र होममानेन प्रमाणमभिधीयते ॥कर्षमात्रं घृतं होमे शुक्तिमात्रं पयः स्मृतम् // 227 // उक्तानि पंच गव्यानि तत्समानि मनीषिभिः॥ तत्सम मधुदुग्धान्नमक्षमात्रमुदाहृतम् // 228 // दधि प्रमृतिमात्र स्याल्लाजाः स्युर्मुष्टिसंमिताः॥ पृथुकास्तत्प्रमाणाः स्युः सक्तबोपि तथा मताः // ॥२२९॥गुडं पलार्द्धमानं स्याच्छर्करपि तथा मता॥यासाई चरुमानं स्यादिक्षुः पर्वावधिर्मतः॥२३०॥एकैकं पत्रपुष्पाणि तथाऽपूपानि कल्पयेत्॥कदलीफलनारंगफलान्येकैकशो विदुः॥२३३॥ मातुलुंगं चतुःखण्डं पनसं दशधा कृतम् // अष्टधा नारिकेलानि खण्डितानि / विदुर्बुधाः॥२३२॥ त्रिधा कृतं फलं बिल्वं कपिलं खण्डितं त्रिधा॥ उर्वारुकफलं होमे चोदितं खण्डितं त्रिधा // 233 // फलान्यन्यानि खण्डानि समिधः स्युर्दशांगुलाः // दूत्रियं समुद्दिष्टं गडूची चतुरंगुला // 234 // ब्रीहयो मुष्टिमात्राः स्युर्मुगमाषा यवा अपि // तण्डुलाः स्युस्तदीशाः कोद्रवा मुष्टिसंमिताः // 235 // गोधूमा रक्तकलभा विहिता मुष्टिमानतः // तिलाश्चुलुकमात्राः स्युस्सर्षपा / स्तप्रमाणकाः // 236 // शुक्तिप्रमाणं लवणं मरीचान्येकविंशतिः // पुरं बदरमानं स्याद्रामठं तत्समं स्मृतम् // 237 // चन्दना For Private And Personal Use Only