________________ Shri Mahavir Jain Aradhana Kendra www.kobalrm.org Acharya Shri Kailassagarsuri Gyanmandir महोत्सवे पोडशस्तंभप्रतिष्ठातोरणध्वजपताकाप्रतिष्ठापूजनम् // 11 // अथाग्निस्थापनप्रयोगः // तत्रादौ कंडेऽष्टसंस्काराः॥ कुंडं सव्यं प्रदक्षिणीकृत्य कुंडस्य प्रश्चिमभागे उपविश्य आचम्य मूलेन प्राणानायम्य मूलेन षडंगं कृत्वा कुंडे स्थंडिले वा अष्टौ संस्कारान् कुर्यात् / तद्यथा / देशकालौ संकीर्त्य मया सह ब्रह्माणैः कृतानां कारितानां चामुकदेवताजपानां संपूर्णतासिद्ध्यर्थ जपदशांशेनोक्तहविर्द्रव्योममहं करिष्ये। तदंगभूतमादावास्मिन्कृतस्य विध्युक्तमार्गेण परिसमूहनादिसंस्कारान्करिष्ये / इति संकल्प्य / तत आचार्यों मूलमंत्रण कुंडं नवीक्ष्य 1 तेनैव कुशत्रयेण संताड्य 2 ॐ मूलेन अस्वायफडित्यत्रमंत्रेण गोमयोदकं संप्रोश्य तेनैव संलिप्य 3 मूलेन इति वर्मणा मुष्टिनासिंच्य४ ॐ मूलेन हृदयाय नमः इति हृदयमंत्रेण स्रवेण कुशमूलेन वा प्रागया उत्तरोत्तरक्रमेण तिस्रो रेखाः कुंडे स्थंडिलपरिमाणाः / प्रादेशमात्रा वा कृत्वा तदुपरिंगा उदगमाः प्राप्राक्क्रमेण तिस्रो रेखाः कुर्यात् / ततस्तासु प्रागमासु क्रमेण ॐ मुकुंदाय नमः। 2 ॐ ईशानाय नमः / ॐ पुरंदराय नमः / इति गंधादिभिः संपूज्य उदगमासु ॐ ब्रह्मणे नमः / ॐ वैवस्वताय नमः / ॐ इंदवे नमः / इति पूजयेत् / एवं पंच भूसंस्काराः 5 ततः माया (ह्रीं) इति बीजेन कुंडं गंधादिना संपूज्य इति षष्ठः 6 तत व आवाहनादिसप्त मुद्राः प्रदर्शयदिति सप्तमः 7 अस्त्रेणावगुंठय इति कुंऽष्ट संस्काराः ततः। कुंडे स्थंडिले वा तन्मध्ये त्रिकोणषट्कोणवृत्त ll साष्टपत्रचतुरस्त्रयंत्रं लिखित्वा तत्र त्रिकोणे ॐ ह्रीं ॐ इति मंत्रं लिखेत / तत्र देशे ॐ मंडूकादिपरतत्त्वान्तपीठदेवताभ्यो नमः / ॐ Kातत्तन्नाम्नं नवपीठशक्तियो नमः। इति संपूज्य तदुपरि सुवर्णस्य कलशं निधाय ॐ ह्रीं वागीशीवागीश्वरयोगपीठात्मने नमः। इत्यासन दत्त्वा मूलेन हुँ इति वर्मणा आयुक्ष्य ॐ आग्नेययोगपीठाय नमः / इति पीठं संपूज्य "शय्यागताम् ऋतुस्नातां नीलेन्दीवरधारणीम् // For Private And Personal Use Only