________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीकाव्यमण्डनम्. संवर्त्तवृत्तनटधृजटिचण्डमालि
वेगोच्छलदहललालमहोर्मिपाताः। शुभ्रांशुशुनचलचामरसाम्यभाज
स्त्रैस्रोतसास्त्रिभुवनानि पुनन्तु पूताः ॥३१॥ नृत्यारम्भविलोलधूर्जटिजटाजुटात्पतन्तः क्षितौ
जाह्नव्या जलविन्दवः सुरवरैरुत्प्रेक्षिताः पान्तु वः। वामाङ्गस्थितशैलराजदुहितुर्धम्मिल्लपुष्पोच्चयः
किंस्वित्तत्रुटितोरुहारविगलन्मुक्ताफलानां गणः ॥३२॥ तीरप्रान्तविहारिभूरिहरिणव्यालम्भबद्धोद्यम___ व्याधवातदुरन्तपातकशमेदवोपकूलानिला । मननिर्जरमौलिमध्यविगलन्मन्दारमालावली ___ सान्द्रामोदसुगन्धिवारिरमरस्रोतोवहा पातु वः ॥३३॥ उत्क्षुभ्यत्कल्पझझानिलतरलजटाजूटकुटाभिधात- प्रेढोल स्वर्गगङ्गाजलबहलचलल्लोलकल्लोलघोषः। शीघ्र घोराधसङ्घ विघटयतु स वो नृत्यतः शुलपाणेः
प्रवस्ताम्भोदनादो नटनमुरजतामाप पापापहो यः॥३४॥ येयां वधूपि पयसि प्रणिमञ्जनान्ते
कम्यं दधत्युरुरदध्वनि मासि माघे । दोर्पदुर्द्धरधराधिपचक्रमत्र
ते कम्पयन्ति सुरणयभिषेणनेषु ॥ ३५ ॥ जननि! जह्वसुते ! तव तोयगा ध्रुवममी अभवनृभवो झषाः। अनिमियत्वमिमे दधतेऽन्यथा कथमहो तदिदं दिविषद्गणाः॥ तस्यास्तरङ्गानिलधृतरम्यरोधावनीमध्यवसन्वरिष्ठाः । फलोधनम्रीकृतपादपोषां ते पाण्डवाः स्नानविशुद्धदेहाः॥३७॥ श्रीमद्वन्धजिनेन्द्रनिर्भरनतेः श्रीमालवंशोन्नतेः । श्रीमद्वाहडनन्दनस्य दधतः श्रीमण्डनाख्या कवेः ।
For Private and Personal Use Only