________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
( २२ . )
श्री चम्पूमण्डनम्.
इह नगरबधूनां शिञ्जितं नूपुराणां सपदि मुदितचित्ता राजहंसा निशम्य । तदनु परिसरन्तो मत्तहंसी निनादभ्रममधिगतवः तो मन्दिरेष्वापतन्ति ||७||
पुरतो द्वारावतीसौधानां रुद्धांशुमा लिरथपथा अभ्रपभ्रंलिहा अमी चामीकरकलशाः कनकविहङ्गा इवोडीना आदृष्टिपातं निरन्तरा दीप्यन्ते । दिव्यमणिमन्दिरपताकाश्च गगनचुम्बन चपलाः विक्षिप्तपक्षपक्षिश्रियमाश्रयन्ति । समदमदगलबृंहितानि कलभवृन्दचीत्कृतानि चान्तरतरलतुरङ्ग हे षितानि विपणिगतापणिकलोकक्रयविक्रयसम्भ्रमवचनानि चाकयन्ते । देवालयोद्धूमितधूप धूममण्डलानि बहुपरिमलानि चन्दनाचलानिलाः परस्परं विभागभाजिन इव विभज्य दिशि दिशि नयन्ति । तुङ्गववल गृहवातायनस्था अन्तरिक्षकमलिन्य इव कमलबदना मदनातिगर्विताः समन्तात् दृश्यन्ते । इतः पद्मरागमरकतपणीनां तोरणानि गगनमण्डलमाखण्डलधनुले खाङ्कितमिव रवरुद्भासयन्ति । इतः पौराणामक्षीणान्तरिन्दिराणां मणिमन्दिराणां इरिन्मणिशिलानि बद्धस्थलान्यङ्गणानि क्रीडाबालम रालमालिकानां शैवलजलाशयधियं वर्द्धयन्ति । अत्र निवासस्तम्भनिषण्णोत्पक्षपक्षाघातविक्षेपयञ्झम्पितश्येनझम्पाप्रकम्पाकुलितस्तम्भसमुद्धान्तानि शरदभ्र शोभाविभ्रमायमाणानि गगनोदरे चापाराणि पारापतमण्डलानि निर्भरं भ्रमन्ति । अत्र चन्द्रचूडनिविडतप: खण्डनभूतदण्डस्तु कुण्डलीकृतकोदण्डः स्वगुरुनगरगर्वधरः परमरूपसम्पन्न एवावसन्नतपोधनजनमानः सुखेन खेलति रतिपतिः । अत्र कनकघटितघटी निभतुङ्गत र शृङ्गतुलितकलधौतशैलशिवरपरम्परासु प्रतोलिकासु सततगतिरपि सततं सञ्चरन् विलम्बमान एवाम्बरान्तराले जर्जरितशरीरः कष्टेन तिष्ठति ।
For Private and Personal Use Only