________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
श्रीहेमचन्द्राचार्यग्रन्थावली. (२१) पुरः स्फुरति गौतमी चटुलभङ्गरगजल
, स्फुटत्कुमुदकुमलाकुलितचक्रचक्राङ्किता । पयःप्लवनसङ्कुचन्नलिनकोशसन्दर्शना
____ निशागमनसंभ्रमाञ्चलचकोरसङ्घाश्रिता ॥१॥ अपि चस्फटिकमणिरुचस्तटे तटिन्याः
कमलभुजो विलसन्ति तापसेन्द्राः । बहुलधृतघृणा द्रुमान्तरान्त
___स्तदनुचरा विचरन्ति राजहंसाः ॥ २ ॥ अपि च-- स्फुटमनुतटमेतत्कन्दलीकन्दलीनं
मुनिजनकरगर्भग्रासनिस्त्रासमास्ते । हरितहरिणयूथं श्यामलालोलनेत्रै--
नलिनचरमधूचां भृङ्गिकाभ्रान्तिदायि : ३॥ अपि तुमृदुपवनवेल्लत्पल्लवोत्रासितानां . हरितरुचिनिकुञ्ज मञ्जुलं वझुलानाम् । अनुतटघटितानां पेशलैरिन्द्रनीलः ___कलयति किल शोभाविभ्रमं कुटिमानाम् ॥४॥ कनककमलधूलीधूसरा राजहंसा __विदधनि च सुपर्णस्वर्णवर्ण तटस्थाः । जलमपि न पिबन्तः प्रेक्ष्य चैतांस्त्यजन्ति
स्थलमितनिचुलानां वायुवेगा भुजङ्गाः ॥५॥ मपि चइह कचलोपसमूहा निर्भरकरुणारसैभरिताः। भ्रमयन्तश्चमराली मन्दं मन्दं पदं दधति ॥६॥
For Private and Personal Use Only