________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
(२०) श्रीचम्पूमण्डनम्. नवजलदमुदोऽमी संनदन्त्येवमाचं
स्मितविकसितवक्त्रं नेमिमाहाथ सूतः ॥ अपि च
विषमसमभूमिसमुच्छलञ्चपलतुरगवेगोत्पतन्तीभिः पतन्तीभिश्च रथशृङ्गारचामरपरम्पराभिः स्वयं विज्यमानो भगवान् गङ्गातरङ्गसङ्गीकृतो हिमाचल इव निर्मलकान्तिर्विलसति ।
पश्यन्नश्यद्रुतगन्धवाहवृद्धगमनवाहूवाहितरथचक्रविघटितहाटकवर्णधरणिखण्डसमुड्डीनपीनरजोमण्डलम् , अर्द्धदण्डमातपत्रमिव, तव पृष्टतोऽदभ्रम् , अभ्रगतं भ्रमति । ___ अमी समीरयायिनो हरिणाः समीरास्फालनेन स्फालन्तः; भवतोऽतिचपलपलायमानरथयुगसङ्घटितस्कन्धवृद्धकोपस्तब्धकर्णदलतुरगगमनानि शिक्ष्यमाणा इव; निम्नाभिमुखमभिसरन्तः वेगमुकुलीकृतकर्णाः, भङ्गवर्णाः, तब रथवाहाः कालिन्दीज प्रवाहा इव नयनालक्ष्या लक्ष्यन्ते । विशालवंशविवरगतसमीरध्वनिमाकर्ण्य कर्णसुखमविलोलश्रवणदलमुक्तधराधरं लिखितप्रख्याङ्ग मृगद्वन्द्वमानन्दमयमाहतुकामो व्यामोहकृन्मगादनश्चित्रस्थल इव पुरतस्तिष्ठति । वेष्टितानां च भोगैर्भोगिनः स्वबन्धनानि मन्दीकुर्वन्ति चन्दनानां किरातिकाकेशपाशानवलोक्य कलापिकलापभ्रमेण पुरो वनखण्डे । इतो दंष्ट्राड्डरोत्खातगुन्द्राङ्कुरा द्राक महामहा अहङ्कारिणः स्यन्दननादमाकर्ण्य स्पोद्धतसटाः कालायसशैलानुकारिणः क्रोडाः क्रीडन्त्येषु पल्वलजलेषु । इतः कण्डूविडम्बितकृतघृष्टविटपिकुसुमकुड्मलनिश्चलैः समुच्छलद्भिभ्रमरैः पटुकटमदलुब्धैर्विद्राविता द्रुतं द्रवन्ति दन्तिनो जलाशयान्मति विवशा निदाघतप्ता इव । इतश्च गङ्गातरङ्गसीकरशिशिरास्तरलयन्तो नबैलाश्चलान् कमलपरिमलशालिनोमी भवदूदनसौरभ्यलोभिन इव वान्ति मन्दमन्दमनिलाः ।
For Private and Personal Use Only