SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीहेपचन्द्राचार्यग्रन्थावली. (१९) शैलान् लीलयैवोल्थ्य विजयवर्द्धनं पुरं ययौ । अध्वानमनल्पमल्पमेव मन्यमानः, समुद्रविजयं राजानं प्राप्य, 'जय' इति वाचमुच्चार्य प्राञ्जलिः प्रणम्य, सम्यक् तं कृष्णोदन्तं न्यवेदयत् । __राजापि सञ्जातानन्दः कृष्णोदन्तमाकर्ण्य पार्वणचन्द्रमण्डलगलत्पीयूषसुखदं निर्भरमानन्दजलभरिताम्भोधिरिव रराज । निजान्तःकरणसमुच्छ्वसितप्रचुररोमाञ्चसञ्चयकञ्चुकीकृतशरीरो धराधर इवाम्भोधरकालस्फुटत्कुड्मलकदम्बकुसुमनद्धः, निर्भरमानर्तितमनोमयूरः, स्फुरल्लोचनचातकयुगशृङ्गारितः,तुङ्गगङ्गाजलर्निर्मलो जलद इव, स त्वरयामाप नेमि कुमारं सुहृत्स्नेहवर्द्धिष्णुं विष्णुं प्रति। किञ्च-स नेमिः समूतं रथं कृत्वा समारूढः प्रौढः मूर्य इनातिवर्यकान्तिः द्वारावतीं पुरं प्रति चलितः । अपि चजननयनसरोजान्यजसोल्लासयन्सन् चतुरनगरमध्यं भासयन्भासमुहैः । स्फुटकरपुटभृद्भिवन्धमानो जनौधैः तरलतुरगवेगात्सङ्गतो नो रजोभिः ॥ १ ॥ अपि चपवनमनुसरद्भिः कृष्णसारैरिवांशु क्षुरतरलितपांशुप्रांशुरोपात्त्यजद्भिः । सपदि वरतुरङ्गरुह्यमानो व्यपश्य त्रसितमणिसुरेखाकारवेषा वनालीः ॥२॥ अन्यच्चतव रथपथभूमेरुद्धतं धृलिजालं प्रचलदचलशृङ्गाच्चातका विक्षमाणाः । For Private and Personal Use Only
SR No.020469
Book TitleMandan Granth Sangraha Part 01
Original Sutra AuthorN/A
AuthorMandan Mantri
PublisherLaherchand Bhogilal Shah
Publication Year1918
Total Pages175
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy