________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
(१८) श्रीचम्पूमण्डनम्. दिवे सरीसर्ति च मर्त्यलोकात् कलङ्किनो नाशयितुं कलङ्कम्॥३॥ अपि चयदानवारिसरितः परितः पुनन्ति
लोका जलं जलनिधेरपि पूरयन्ति । यदत्तकाश्चनविवृद्धसमृद्धयश्व
सर्वेऽर्थिनोऽपि किल दातृगुणं भजन्ते ॥४॥ किञ्च
यस्याङ्गसङ्गेन पुन: पटीरः पटीयसो भूधरसौख्यमाप । कर्थितो येन पुरा पुरारिर्भुजङ्गसंसर्गमपास्य तं च ॥५॥ सकलगुणनिधानं सन्निधानं दधानं
हृदयगतसुधानां निर्मलानां बुधानाम् । सति महति समुत्थेऽगण्यतारुण्यरूपे
__ तदपि सपदि नेमि मानयामासुराः ॥ ६॥ श्रीसारस्वतमण्डनस्य विदुषां सन्तोषदरयानुजे
चातुर्योचितकाव्यमण्डनधृतभ्रातृत्वसंराजिते । श्रीमन्मण्डनविन्दुना विरचिते श्रीमालवंशेन्दुना
चम्पूमण्डननामनीह पटलो ग्रन्थे चतुर्थोऽभवत् ।
विविधकलाधरविबुधमागधवर्णितगुणम् , कीर्तिवालमल्लिकापरिमलपरिमलितदिगन्तवलयं शरत्कालमिव,यशश्चन्दनपरिमलमिलितामितवेतालिकललितालिमालिकमलयाचलमिव, तमाकर्ण्य वर्ण्यमानमहिमानम् , अनन्तलावण्यसम्पन्नम् , सम्पद्विनिमयपरायणम् , नेमिनाथम् सञ्जातकौतुकः, तदर्शनविद्धतृष्णः, अथ कृष्णोऽनिसौहार्दाकुर्दनसमुत्सुकः, विस्मयकारिपवित्रचरित्रभाजनम् , आयान्तम् , इयेष ।
किञ्च-ततो दूतोऽस्य शीघ्रगामी समीर इव, मनोवाहमारुख
For Private and Personal Use Only