SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीहेमचन्द्राचार्यग्रन्थावली. (१७) मन्दिराङ्गणे रङ्गन् ,अङ्गसङ्गतां निजच्छायाम् आयाहि'इतिवदन् , सदनस्थजनं सहसा हासयांचकार । धावन्मणिनूपुरवं पृथक्कृत्वा ‘देहि' इति धाव्या सह विवदमानः, मणिस्थलसङ्क्रान्तमात्मानमवलोक्याहर्तुकामः, धाव्यङ्गुलीमवलम्ब्य विलम्बितगमनः, मनोरथं वर्द्धयन् नेमिः, अमितगुणः, पितुहृदयस्थं खेदं दूरीचकार इति, किं पुनर्दुःखमित्यक्षरद्वयमपि विस्मारयति स्म । किश्च-ततो भोगातिरिक्तमाल्यमिव बाल्यमपहाय तारुण्यमङ्गीचकार । दर्जनभवल्लभोपालवाय धमकेतशिखे इव नवनवस्फुटितकन्दलीसुनीले श्मश्रुणी बभार । अमन्दकान्तिजाम्बुनदशिलाविशालवक्षःस्थलोडविडम्बिमुक्ताफलहारः, परमरमणीयजानुचरसरलदोर्दण्डभूषितमणिमयबाहुभूषणः, सुवर्णकदलीश्लाघालड्डिजवायुगलतरङ्गिताङ्गशृङ्गारितचैलः, शीलविलम्बिताम्भोधिगाम्भीर्यधैर्यः, फलभरनमिततरुवर इव विनीतः, शीतकर इव सकलजनालादकरः, पञ्चानन इव सञ्चारितभयारिकलभभग्नाभिमानः, काश्चनाचल इव काञ्चनविनिमयोर्जद्भुजयुगकल्पद्रुमद्वयसमाश्रितः । अपि च औदार्य सुरभूरुहाज्जलनिधेर्गाम्भीर्यमर्यादित ___ लावण्यं कुसुमायुधान्मुनिजनात्कारुण्यमत्युत्तमात् । आदाय क्षितिमण्डले तनुभृदाऽऽनन्दाय वन्द्याकृते र्धाता तस्य चकार कारणपटोर्जन्मात्र सन्मानिनः ॥१॥ अपि च कन्दर्पदर्प विफलीचकार रूपेण कोपेन बलं नृपाणाम् । विश्वंभराभारधरः स्थिरश्रीनेमिर्भुजङ्गेन्द्रसमानबाहुः ॥२॥ अन्यच्चयशःसमुज्ज्वाल्य दिशोऽस्य राज्ञः कर्पूरपूरीकृतमेदिनीभृत् । For Private and Personal Use Only
SR No.020469
Book TitleMandan Granth Sangraha Part 01
Original Sutra AuthorN/A
AuthorMandan Mantri
PublisherLaherchand Bhogilal Shah
Publication Year1918
Total Pages175
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy