________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
(१६) श्रीचम्पूमण्डनम्.
कर्पूरपूरगौराङ्गमिन्दीवरविलोचनम् ।
मन्दीचकार नृपतिस्तं विलोक्यान्यलोकताम् ॥ १ ॥ मपि च
तस्य क्षितीशस्य पुरातनेन पुण्येन लब्धेन सुदुर्लभेन।
बभौ ततस्तेन सुतेन राजी निधानकुम्भेन धरेव भव्या ॥२॥ अपि च
असौ धर्मार्थचक्रस्य भारोद्धरणधीरधीः । अतस्तं नेमिरित्याह राजा सञ्जातकौतुकः ॥ ३ ॥ स भुवनभवनान्तस्थो निमलयन् दश दिशो महाभित्तीः ।
वर्द्धयति स्म स्मृद्धिं दीप इव दशाविशालरुचिः ॥ ४ ॥ अपि चगण इव गणनानां तेजसां देहधारी
ज्वलन इव परेषां सैन्यवन्यापहारी । इति जगति जनानां पश्यतां भ्रान्तिकारी _व्यरुचदति स नेमिः क्रिडयाश्चर्यकारी ॥ ५ ॥
किञ्च-असौ बालकशृङ्गारभङ्गीमङ्गीकृत्य सवीडं क्रीडन् , पितृमानसे मुदं वर्द्धयन् , हृदयानन्दनकोमलशब्दसुखं ददानः, कुड्डमरागरक्तचरणकमलतलः, पक्षद्वयराजमानस्तु राजमानसजीवनशृङ्गारः, परिजनकरकमलवनघनसङ्गशोभमानः, बालमराल इव रराज । शुक इव शिक्षितवचनानुवदननिपुणः, सज्जनमनोरञ्जनमधुरवचनविलासः पिक इव, राजाङ्गणे विस्तारितकर्पूरलिधूसरगात्रमादधानः, धात्रीकरविरचितदुष्टजनदृष्टिपातबन्धनमृगमदपङ्कतिलकचारुललाटफलकः, सूक्ष्मज्ञशकलक्ष्मलाञ्छितः शशलाञ्छन इव, कलङ्कबुद्धिभ्रान्तजनवचनभ्रममपनेतुमुज्ज्वलनिष्कलङ्कशरीरः समागत इव स्वर्गात , भूभागं मणिमय
For Private and Personal Use Only