SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीहेमचन्द्राचार्यग्रन्थावली. (२३) अत्र प्रतोलिकाशृङ्गे विश्रान्तहयस्य सप्तहयस्य हयानवलोक्य जलदमण्डलोद्भर्जितान्क्रीडाशिखण्डिनस्ताण्डवाडम्बरिताः शिखण्डमण्डपान्मण्डलयन्त्युच्चतरप्रासादशिखरनिवासर्रासकाः । अत्र मुक्ताफलधवलकिरणा धवलयन्तो गगनमण्डलमिन्दूपलपासादशैला द्रवन्तश्चन्द्रकरैनिशि दिनकरकरसङ्गसमुच्छलत्तुहिनजलकलोलस्य तुहिनाचलस्य शोभां बिभ्रति । उपान्ते च उपवनराजयो दृश्यन्ते । जयोज कुसुमशरस्य । कुसुमधनुष्टङ्कारवशकाकुलिताः, कुसुमलतोद्भ्रान्तभ्रमरहुङ्कारपकायमानाः नगराङ्गनानां नयनोपान्तसम्पातकम्पायमानाः अरण्यानीषु हरिणीलोचनाञ्चलश्रेणीभिरपि मुहुर्मुह्यन्ति तपोधनसमूहाः। चञ्चुपुटजर्जरितवर्जूरीपक्कफलगलद्रसास्वादनिर्जरीकृतशरीराः कीराः, पण्डिता इवाखण्डितं सुभाषितानि पठन्तस्तु लुठन्तः पादपपल्लवेषु, अभिनवगोष्ठीभिश्च रमयन्ति पथिकान् शमयन्ति च तेषां चिरभ्रमणश्रमान् । पटुतरविटपिकोटरान्तरालगता: किरातानभिसरतः सारिका धर्मोपदेशे स्थापयन्त्यो वनदेवतावचनविलासभ्रान्तिमुत्पादयन्ति । इह निर्भरमटन्षट्पदपदसंघट्टविघटितकनककेतकीपटुकुड्मलसमुश्छललिपटलपांसुलासु वनस्थलीषु वेल्लदुत्फुल्लवल्लिकाजाल जटिलतरुपल्लवोल्ललितनानाविहङ्गभृङ्गसङ्गभङ्गुरकुसुमभरगलदुत्तालमकरन्दजलकल्लोलकर्दमकई मिलासु कुर्दनगमना मजन्त इव पवना मन्द मन्दमुच्चलन्ति । इह मृदुलपवमानवलनकिश्चित्कणितवीणाकलकणनमूढमनसो मत्तमधुकरीशाङ्कृतिभ्रमझम्पितान्वीणासु पततः मधुकरान्समन्तात्समालोक्य किमरा किमरीभिःसहासमालपन्ति । अपि चभवति मधुरगीतं कोकिलानां कुलानां - विटपिदलपुटाली ताललीलां दधाति । For Private and Personal Use Only
SR No.020469
Book TitleMandan Granth Sangraha Part 01
Original Sutra AuthorN/A
AuthorMandan Mantri
PublisherLaherchand Bhogilal Shah
Publication Year1918
Total Pages175
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy