________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
(१२) श्रीचम्पूमण्डनम्.
द्विरदरदच्छेदसमानविशदकुसुमोत्तरच्छदेऽनल्पपरिमले शयने शयाना, परिचारिकाजनवालव्यजनवीज्यमाना, शचीसमानानन्तभोगभासमाना, विशालहर्म्यचन्द्रशालायां चन्द्रकान्तस्थूले पार्वणपीयूषमयूखपीयूषस्यन्दशिशिरतरे प्रासादतले कनकगौरशरीरा, गगातरङ्गाभमच्छमतुच्छकान्ति वासो वसाना, चम्पककलिकेव चन्द्रकिरणावरणा, शिवादेवी; निशागमनसमये स्वप्ने ददर्श द्विजमेकम् , आदर्शसदृशकान्ति कुङ्कमरागपिञ्जरितकर्पूरपरागसुन्दरमधोवासो वसानम् , क्षीरोदधिवीचीसमीचीनमरीचिरुचिरमुपरिवसनं परिदधानम् , काश्चनचम्पककुसुमधामान मिव क्षीरसमुद्रतो द्रुतमुपगतम् ; विद्रुतनिद्रामध्यमोहरूपतमोभरम् , परम्, प्रकाशकरम् , करे विधृत्य स्वरागरञ्जितभूमण्डलम् , चिरत्नं रत्नत्रितयं कौस्तुभशुभशोभमुपस्थितम् ।
अन्यच्च-तेन तद्रत्नत्रयं त्रिलोकदुर्लभमचिन्त्यप्रभं तस्याः करे दत्त्वा 'स्वीक्रियताम् इत्यवादि मुदितमनसा निशावसान एव केवलम् ।
ततः प्रभातमभवत् , राजभवनघनमङ्गलसूर्यस्वनपूर्यमाणदिङ्मुखमुखरिताखिलकुलशिखरिशिखरम् , उदितदिनकरतरलकरप्रकरसङ्गभङ्गुरपलायमानतिमिरपटलश्यामलीकृतापरदिङ्मुखमण्डलम् , मलिनम् , अपराङ्गनावदनविम्बमिव दिवसपतौ परिणीतप्राचीतरुणीरक्ते, रजनिकरजनितदुर्वियोगकोकयुगसङ्गपरमरमणीयकान्ति, कान्तानां निशि कुसुमशरसमरखेदच्छेदकारि, सन्तापहारि, स्फुटत्कमलकुड्मलदलदलनमिलितसुरभि, किश्चिद्भिनविटपिविटपपटुच्छदपुटमन्दमन्दपवमानम् । अन्यच्च-शिवादेवी विचिन्तयामास
लोककृता किं न कृता निद्रा चिरवासिनी मनीषितदा । यस्यामभ्यन्तरलभ्यं कीहक्गगोचरं रत्नम् ॥१॥
For Private and Personal Use Only