________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
श्रीहेमचन्द्राचार्यग्रन्थावली. (११) अपि चहारानुग्रथितान्विशालविगलन्मुक्ताफलान्खेलनात
विन्यस्तं स्तनमण्डले प्रचलितं वासो विदुर्न स्त्रियः। धोतं चाधररागमङ्गविगतं श्रीखण्ड सौरभं
वातान्तःकुसुमप्रकीर्णकबरीभारं तरन्तं जले ॥१॥ अपि चपरस्परनिषेचनकणितकङ्कणारावतो
विलोलजलनिःसरत्तरलवीचिकास्फालनात् । दधुर्वियति मण्डलं प्रचलिता मराला भिया
सितातपनिवारणं धृतमिवाङ्गनानां स्फुटम् ॥ २ ॥ ततो ययौ राजा जलकेलिमनुभूय भूयः कान्तासखः, सुखविकसितमुखकमलः, ललनाकरतलसमुललितचामीकरदण्डचारूचामरयुगलेन वीज्यमानस्तडागतरङ्गयुगेनेव चामरीकृतशरीरेण बहुकालखेलनघनस्नेहसमाकृष्टमानसेन, विकचारविन्दलोचना नयन्सन्सुरसाः, सरसो नीरमवगाह्य तीराभिमुखो गजेन्द्र इनोनिद्रकमलाः कमलिनीः कर्षन् वर्षन्तीलकणानगणान् । पुरसुन्दरीभिरवलोक्यमानः, प्रखरशेखरमाणिक्यचयसंवलितोंऽशुमालीवांशुचयैरनुमितः, प्रोत्फुल्लबदनपद्माभिः पद्मिनीभिश्रानुगतः, स्वशरीरमरीचिसञ्चयेनेन्द्रनीलवातायनानि पुरमन्दिराणां चामीकरनिर्मितानीव कुर्वन् , दिवसविरामसमये स्वराजमन्दिराणीन्द्रचापमुद्रामणिगणरचिततोरणानि विवेश । अपि चइन्दुः सुन्दरवेष एष पुरुषाकारं विकृत्यागतो
दृष्टिश्चामृतवृष्टिरस्य जगदानन्दाय संभाव्यते । कान्ता चास्य निशा विशालनयना श्यामाभिरामाकृतिः
पौराणामिति संस्तुतः कलगिरा राजा विवेशालयम् ॥१॥
For Private and Personal Use Only