SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री हेमचन्द्राचार्यग्रन्थावली. दिनमिति कथयन्तश्चन्द्रिकाद्रावपाण्डु निशमतिमुदमापुचक्रवाका वराकाः || २ || अपिच स्मरसमरभुवा श्रमेण खिन्नं स्वकरकृतामृतसेचनेन चन्द्रः । जगदतिगतखेदमादधौ यत् परसुखदाः प्रभवो भवन्ति नित्यम् ||३|| श्री सारस्वतमण्डनस्य विदुषां सन्तोषदस्यानुजे चातुर्योचितकाव्यमण्डनधृतभ्रातृत्वसंराजिते । श्रीमन्मण्डनविन्दुना विरचिते श्रीमालवंशेन्दुना चम्पूमण्डननामनीह पटलो ग्रन्थे द्वितीयोऽभवत् ॥ ३. पूर्वस्मिन्नचलासने मणिमये तिष्टन्दिशो रज्जयन् सर्वाः स्वेन गुणेन भूमिवलयं निःशेषमानन्दयन् । कोशानुद्घटयन्करेण कमलोल्लासं च विस्तारयन् ( ९ ) राजा नव्य इवोदितोऽवनिभृतां भानुः कृशानुद्युतिः ॥ १ ॥ रजनिकर करनिकरकुञ्चित विशालकमलमुकुल बृहत्कारागृह - निबद्धमधुकरबन्दिनो दिनोदये मुञ्चन, चतुरखेग तुरगसङ्गमितरथto भूधरशिरः पथं कृत्वा सत्वरं पश्चिमदिशं विजेतुं जिगमिषुः, कोविदवृन्दवर्णितानवद्यगुणगणगरिमधरो, धरोदयाय दयापरो, द्विजचक्र कृतानन्द, सकलधर्मकर्मपालनाय कृतावतारः, दाहोतीर्णसुवर्णागण्यकिरणचयेन गिरीन्द्रान् काञ्चनाचलनिभान्कुर्वन, सर्वभूवलयं हेमजलजरजः पिञ्जरितमिव प्रकाशयन् । अपि च सरसिजमुखा भृङ्गेक्षणा पयोधरानमन्त्यः परिमलभरानद्धा हंसागमेन रम्यलीलाः । For Private and Personal Use Only
SR No.020469
Book TitleMandan Granth Sangraha Part 01
Original Sutra AuthorN/A
AuthorMandan Mantri
PublisherLaherchand Bhogilal Shah
Publication Year1918
Total Pages175
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy