________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
(८)
श्रीचम्मपूण्डनम्. अन्यच
उदयति दयिते ततो निशायास्तरलकराड्डुरगौरवर्णविश्वे । दिनसमयधियेव चापराधात्तिमिरभरः प्रययौ दरीगिरीणाम्।। यत्र निर्मलगुणाः शशिमुख्या नाशयन्ति जगतां पटुतापम् । भ्रान्तिदस्य निजमार्गगामिनां दुर्जनस्य तिमिरस्य कथा का
ततः प्रकटीबभूव चन्द्ररुचिः, विचित्रधवलिमधवलितगिरिशिखरपरम्परा,शरदिव दिवससमानकमनीयकान्तिः, ध्वान्तौघमेघपटलानि दूरीकृत्य गौरीकृतनभोमण्डला,जननयनकमलान्युब्लासयन्ती, जनपदहृदयानि सुखधराणि कुर्वती,धरायै मुक्ताफलनिचोलमिव प्रकाशमपेयन्ती।
सखीस्नेहविशेषेण सपरिवारेण कुसुमशरेण वैरिणो विजेतुं प्रस्थितेन विनिवेशः कृत इव भूप्रदेशः।
यत्र सितपटकुटीनिभाः पटीयांसः पर्वताः,गन्धवहाव धूतद्रुमशाखास्तारवेषा गङ्गातरङ्गचारुचामरश्रियं भेजुः । काञ्चनाचलविशालदण्डं गगनमण्डलं सितातपत्रमिव लक्ष्यते स्म । विस्मयोऽभवगिरिजाजलधिजयोः कर्पूरगौरावेव हरिहराववलोक यन्त्योः । वल्लभवेश्मगच्छन्तीनां वल्लभानां संभाव्यते गमनं मणिमञ्जीरधीरध्वनिश्रवणेनैव, सान्द्रचन्द्रकिरणावलीकवलितानामलक्ष्याणामीक्षणैः। अपिचजलमपि निखिलं ततो नदीनां
विशदतया विजहास दुग्धसिन्धुम् । किल कुलमखिलं च कोकिलानां
___ मधुरगिरेन्दुसितान् निनिन्द हंसान् ॥१॥ अन्यच्चहिमकरकरशुभ्राश्चक्रुरुच्चैश्चकोरा
दिशि दिशि मदधारा पारणं वारणानाम् ।
For Private and Personal Use Only