________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
श्रीहेमचन्द्राचार्यग्रन्थावली. (७)
कलगलकुलगीतः प्राप रूपं वसन्तः ॥ १॥ अन्यच्चउनियत्पुलकाभचारुकलिकापुञ्जान्दधानाः परं
दन्तच्छिन्नसुकोमलाधरसमारक्तप्रवालाकुराः। कम्पेनाकुलितास्तदागमपदासङ्गेन संवर्धिना
मुग्धानामदधुः श्रियं मधुकराश्लिष्टा लता सकताः अथ तरुणजनमनःसुखकरणम्,अङ्गनानां रमणसमागमनसंशयनिवारणम् , अस्तमनमारब्धम् स्वरयदिव दिवसे परस्परावलोकनस्नेहलान, निशागमनसमुत्सुकान,भोगाभरणधरणाय प्रियान्, जलनिधिमधिगम्य रवेविम्ब कमनीयकुङ्कमाभमरुचत्, अपरदिशावध्वा इव वदनं मधुपानरक्तायाः । __अपि च-ततो जरत्कुञ्जरनिभपुञ्जितमिवाञ्जनम् , रञ्जितजगत्रयम् , निर्जितसमस्तज्योतिः, अर्जितम् , अकाण्डदण्डितपुण्डरीकपटलपाण्डिम, दिनसङ्गतरथाङ्गयुगयोगभङ्गसमुद्भवत्कुन्दारधृतघनघृणपतिनादरुदितमयनदीतटम् , त्रस्यद्भिरिव दिवसपतिधृतानादैररविन्दैःकृतमुकुलच्छलाञ्जलिपुटः प्रणम्यमानमिव, श्यामलितकुमुदवनजनितनीलोत्पलभ्रान्ति, दिनादयमुदितकोकयुगक्षणशोकहरम्, प्रचण्डतरचण्डकिरणपरम्परादीपमालासङ्गमितगगनमण्डलखपरोद्धान्तम्, भ्रमरवणं कजलमिव तमः समस्तमाच्छादयति स्म । अपिच
लोकबन्धुरधुना विगतोऽयं यद्भयान्मम पदं न कदाचित् ।
इत्युदीक्ष्य नु तमः शरभेद्य छिन्नकज्जलनिभं प्रससार॥१॥ अपि च
चोरयन्मृगदृशां मणिहारान्सश्चरत्सुदृढमन्दिरमध्ये । दृश्यमेव जनतानयनानां धीरचोरवदचिन्त्यमलध्यम् ॥२॥
For Private and Personal Use Only