________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
( ६ )
श्री चम्पूमण्ड नम्.
कोपपन्नानि, परपुष्टपटु पटहनिनादमन्दी कृतस्ववैरिवैराग्यधरपुरुषपरुषाभिमानः, प्रस्थितषट्पदपदातिभारपद भर दलिताकुलितवनघनकुसुमस्तोमसमुद्धतधूलिचटुलपटलस्थगि तदिगन्तः, समन्तान्पत्र मानसामन्तसमानीतचन्दनतरुपल्लव परिमलमहामलः, वनवेगवेल्लत्कनककदलिकादलराजिध्वजविराजितः पराजितप लायमानमहामानकवचधरतपोधनयोधः, लतावधूपलवान्विधूनयन्मलयानिलकरेण, अतुच्छकुसुमगुच्छघन स्तनमण्डलान्युद्घाटय न, हसन्निवनवविकसितपुष्पसमूहेन, हेलया कामीव समीहितमनोऽ भिलाषमखण्डितं कुर्वन, दूत इव सर्वकामिमिथुनानि विघटि तानि घटयन, विटपिभिर्महाविटपभुजैराबद्ध दलपुटाञ्जलिभिरालिङ्गितवल्लिबल्ल भैरमितपरोपकारतुष्टेने मरकृत इव ।
तंत्र बहुला भ्रमरकुलाकुला याचकजनसङ्कुला उदारा नरा इव, मकरन्दजलवर्षिणः क्षीणजला जलदा इव, चूततरवः सरवकोकिलनिनादविडम्बितकादम्बिनीनिर्घोषाः मधुरमधुसन्तोषाद घूर्णिता इव मलयानिलाग्दोलिताः कुसुमरागरक्ताः किंशुकाः मत्ता इवारेजुः ।
,
तत्र कनककुरवककुसुमनिक निष्कासितजाम्बुनदाः प्रमदाः, बकुलकलिकादाममन्दीकृतधामविशालमुक्ताफलहाराः, मनोहराणि कुसुमाम्बराणि दधानाः क्रीडन्त्यः कान्तैः सह कुसुमसमयमेव केवलं मन्यमानाः मानमपहाय ससारं संसारं विचार्य नार्यः कुसुमशरशरजालजर्जरितमहाहङ्कारग्रन्थयः, कामकेलिमनुभवन्ति स्म सुस्मितमुख्यः सर्वाः ।
अपि च
असमकुसुमभाराविद्धभुग्नद्रुशाखः परिमलभरलुभ्यन्भ्राम्यदिन्दिन्दिरौघः ।
तनुतरदल रागाताम्रनम्राम्ररम्यः
For Private and Personal Use Only