________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
श्रीहेमचन्द्राचार्यग्रन्थावली. (५) खण्डितसौभाग्यभाग्योदयमात्सर्याश्चर्यकरी, स्थलकमलिनीक दिवसरात्रिविकासिनी, मणिन् पुरझणत्कारच्छलविलोलराजहंसनिःस्वना, अशोकलतेव पद्मरागसरागाङ्गुलीकिसलयविलासयुता, कर्पूरकदलिकेवाभ्यन्तरलीनविचाररूपकर्पूरपूरगर्मी, सुपर्णीव वर्यमुखशुक्तिसम्पुटविमलवचनमुक्ताफलपटेलशृङ्गारितसेवकजना, भारतीव मनोहरार्थालङ्कारालङ्कृतजनसौभाग्यदा, कल्पवल्लीवानल्पदातृत्वगुणगरिमधुरा, पतित्रसाव्रताचरणशुद्धान्तःकरणवर्या,पर्याकुलितधर्मकर्मस्थापनशर्मदा, पतिव्रतान्दवन्द्यपदारविन्दा, सरस्वतीवानवद्यविद्या ज्ञानचातुर्यमनोहरा। अपि चचरणकमलरागं पद्मरागप्रकाशं
घनतिमिरप्रकाशं केशपाशं किलास्याः । रचयितुरिह धातुः पौनरुक्त्यं प्रयातं
मणिगणतिमिराणां निष्फलारम्भमाजाम् ॥१॥ श्रीसारस्वतमण्डनस्य विदुषां सन्तोषदस्यानुजे
चातुर्योचितकाव्यमण्डनधृतभ्रातृत्वसंराजिते । श्रीमन्मण्डनविन्दुना विरचिते श्रीमालवंशेन्दुना चम्पूमण्डननामनीह पटलो ग्रन्थेऽयमाद्योऽभवत् ।
२. ततस्तयोः शिवादेवीसमुद्रविजययोः परस्परं स्नेहभराकृष्टत्रिविष्टपमुख्यसौख्ययोः समस्तवस्तुसार्थिकप्रार्थनयोः समुल्लसितसदयहृदययोः पवित्रीकरणयोर्मिलितयोः कमलिनीभान्वोरिव महामहानि दिनानि महान्त्यपि तनून्यगमन् ।
ततःसपर्यायो वसन्तो राजेव स्वजनपरिवारेण संवृतो प्रवकृते कामिनीसभ्रूभङ्गविभ्रमोपदेष्टा,कष्टानि वारयन्निववियुक्तवधूवरप्रण
For Private and Personal Use Only