________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
१२) श्रीचम्पूमण्डनम्. पडलायमानम् , यशःप्रकाशनिर्मलितदिक्कुलाचलवलयम् , विकलङ्ककुल तिलकम् , श्रीमालकुलम् । तत्र निबिडदैन्यनिगडखण्डनो बाहडनामा सङ्घपतिरप्रतिम आसीत् । तस्यात्मपन्या सन्मानदः समस्तवस्तुनिर्वेशायतमालवदेशाचलमण्डपमरमण्डनायमानो विनोदमोदमानो जलद इवाखण्डताण्डवितसहलकलाधरशिखण्डमण्डलीको मण्डननामा सङ्घपतिः ।।
सोऽहं वच्मि कथां नेमेः सुवर्णा गुणधारिणीम् । मालावत्कोमलग्रन्थां सद्यः सन्तापहारिणीम् ॥१॥ कोमला पदविन्यासरसालङ्कारशालिनी । करोति कस्य नाह्रादं चम्पूश्च प्रमदा सदा ॥ २ ॥ चम्पूमण्डनमानन्दपीयूषरसपूरितम् । करोति कस्य नो चित्तचकोरं चन्द्रिकोपमम् ॥ ३॥ नित्यं पूर्वकवीन्द्रकाव्यसरसीहंसीकृतं यः पुरा
तेषां मद्वचसो विलासरसिकं चित्तं कथं जायते ? । श्रीमन्नेमिकथाकथानकमिति श्रोष्यन्ति पुण्याशयाः
काव्यं मे सुधियोऽथवा परगुणं स्फारं विधातुं बुधाः॥४॥ सतां कृपावलोकेन काव्यं सौभाग्यभाग् भवेत् । चन्दनान्तर्गतं दारु चारुतामेति चान्दनीम् ॥ ५॥ जयति विजयवर्द्धनमिति नगरं गरिमाणमुद्रहत्पूर्वम् । यत्र विचित्रविलोकी लोकः शोकं जहात्यक्ष्णाम् ॥ ६॥ यत्र जनपदो निर्जरजनसन्तानसुधर्मालङ्कृतः स्वर्गसुखमुमबति । यत्र नित्यं सुपर्णवाहनाश्चैत्या मधुसुहृदोऽपि मधुसदना इवाभान्ति । यत्र पक्षिणो विचारज्ञा हंसाः सुमतयो माय । यत्र सदा वसन्तो वने लोकाश्च नगरे सुखिनः । यत्र बारिकाः सकमलाः सर्वजनाश्च । यत्र माकाराः समाः कृतव
For Private and Personal Use Only