________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
अर्हम्
श्रीहेमचन्द्राचार्यग्रन्थावली. ९.
मण्डनग्रन्थाङ्क: २.
श्रीचम्पूमण्डनम्
S
१.
मधूचाम्
कमलयुगल बुद्धया सेवकानां सुरसमधुरवाचां दत्तमानुषजन्म । परिजनहततृष्णे ! नौमि कृष्णेऽद्यमातस्तव चरणसरोजद्वन्द्वमानन्दहेतुम् ॥ १ ॥ कारुण्यपूर्णकलशा इव शारदेन्दु
कुन्दप्रसूनधवलाः कमलायताक्षाः । विक्षालिताञ्जनगिरीन्द्रसमानमुद्र
पापा जयन्ति जगतीह जिना जलाच्छाः ॥ २ ॥
कारुण्यपीयुषरसप्रणाली दुर्वारसंसारपयोधिपाली । या जीवसंजीवनरम्यशीला दृष्टिर्जिनानां जयतीन्दुलीला ||३|| निर्मदान्शर्मदान्वन्दे सन्तः सन्तापहारिणः । जगज्जनितशृङ्गारान्मुक्ताहारानिवोज्ज्वलान् ॥ ४ ॥ सदाचाररतां चारुरससन्दोहदायिनीम् ।
मन्दा निन्दन्ति तान्वन्दे ये गां गङ्गामिवोज्ज्वलाम् ॥ ५ ॥ प्रायश्चित्तातिविमुखा गोः पदच्छेदकारिणः । अशुद्ध रक्तरसनाः सन्ति पुण्यजनः क्वचित् ॥ ६ ॥ अस्ति विस्तीर्णकीर्णगुणगणकिरणपटलपटलितनिखिलधरणिखण्डप्रचण्डतरप्रकाशाडम्बरितम्, अम्बरद्योतिमार्त्तण्ड
॥
For Private and Personal Use Only