SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ४२ ) जन्मद्वितयज वृत्तं तस्याह सकलं मुनिः ॥ ९४ ॥ शुको जाबालिकथितजन्मद्वितयचेष्टितः । सस्मार सहसा हंसदुहितुर्दुःसहस्मरः ॥ ९५ ॥ सखा कपिञ्जल: क्वाध चन्द्रापीडः क्व वा सखा । इति संचिन्तयन्नेव तस्थौ तत्रैव तदिनम् ॥ ९६ ॥ अपरेारथागत्य तमाश्चास्य कपिञ्जलः ॥ त्वमाशापान्तमत्रैव तिष्ठेन्युक्त्वा ययौ दिवम् ॥९७४ चन्द्रापीडं सखायं च महाश्वेतां च वल्लभाम् । स्मरन्नेवावसत्तत्र यावत्पक्षसमुद्गमम् ॥ ९८ ॥ अथ हंससुतां द्रष्टुं प्रस्थितः प्राप्तपक्षतिः । जनगमेन केनापि जगृहे पथि खेदितः ॥ ९९ ॥ स प्राप्य सान्द्रपिशितचिक्कणं क्वापि पक्षणम् । शुकं तं स्वामिकन्याय व्यतरद्विहलाशयम् ॥ १०० ॥ अकरोदमुमादाय सा च चण्डाल कन्यका । पञ्जरेस्थिमये क्वापि रचितघ्राणसंज्वरे ॥ १०१॥ अपरेयुरथालक्षि पक्वणं पुरमद्भुतम् । तदेवसौरभोद्गारि पञ्जरं मणिपिञ्जरम् ॥ १०२ ॥ ततः शुकं तमादाय प्रातश्चण्डालकन्यका। विदिशाधिपतेः पाप शूद्रकस्य सभा शुभाम् ॥१०३॥ संचरन्तीमिव लतां स्तनस्तबकशालिनीम् । पत्युजगाम तां तत्र नृपनेत्रालिमालिका ॥ १०४ ॥ मणिश्यामां लसत्पाणिशुकां शोणस्तनांशुकाम् । जनङ्गमीसमामेतां मतङ्गकुलदेवताम् ॥ १०५ ॥ स्वामिन्नेष शुको वेत्ति स्वजन्मान्तरचेष्टितम् । इति पञ्जरमुद्घाट्य तस्मै साथ ददौ शुकम् ॥ १०६ ॥ स ततः पृच्छते तस्मै शुको जाबालितः श्रुतम् । For Private and Personal Use Only
SR No.020469
Book TitleMandan Granth Sangraha Part 01
Original Sutra AuthorN/A
AuthorMandan Mantri
PublisherLaherchand Bhogilal Shah
Publication Year1918
Total Pages175
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy