SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ४१ ) भक्त्या पर्यचरत्सा च श्वसुरं स्वयमन्वहम् ॥ ८१ ॥ चन्द्रापीडाहायचन्द्रः स पुनः शूद्रकाह्वयः । जन्मद्वितीयं जायायां विदधे विदिशापतेः ॥ ८२ ॥ चन्द्रापीडस्य या विद्या यद्रूपं ये च ते गुणाः । तथैव तस्मिन्नभवन्शूद्रकेऽपि शुभावहाः || ८३ ॥ पितुरन्त शनैः प्राप्तराज्योऽयं प्रौढयौवनः । सत्सु सत्स्वपि दारेषु विमुख विषयेष्वभूत् ॥ ८४ ॥ स विश्वविजयी सर्वनरेन्द्रा चितपादुकः । - आसेतोरा च कैलासादशेषामशिषद्भुवम् ॥ ८५ ॥ शापेन हंसदुहितुः ततो विन्ध्यवनान्तरे । शुकनाससुतः प्राप शुकतां शाल्मलिद्रुमे ॥ ८६ ॥ जननी जातमात्रेऽस्य विधिनाऽऽप परासुताम् । पिता स्वपक्षे निक्षिप्य मातेवावर्द्धयच्च तम् ॥ ८७ ॥ ततो ant मृगयुरारुह्य तं कविच्छाल्मलिद्रुमम् । अपातयदधस्तस्मादखिलान्शुकपोतकान् ॥ ८८ ॥ 'पक्षगर्भात्पितुरधः पतितोऽयं शुकार्भकः । । अभूदगोचरस्तस्य गुप्तः पत्रान्तरे क्वचित् ॥ ८९ ॥ गते तस्मिन्गृहीत्वाथ शुकानन्यान्स्वगोचरान् । निर्गत्य विलुण्ठना स तृषितो दीर्घिकासुतः (१) ॥ ९० आतपातमवेक्ष्यैनमजातग रुदञ्चलम् । जहार जातकारुण्यो हारीतः स्नातुमागतः ।। ९१ ॥ जावालिर्जनकस्तस्य तेन नीतं दयालुना । शुकाकममुं दृष्ट्वा सकिञ्चिदवोचत ।। ९२ ॥ शुक एष स्वयं भुङ्क्ते स्वस्य दुष्कर्मणः फलम् । विवेकहीनो विपदां परं पात्रं भदेदिति ॥ ९३ ॥ ततः स पृष्टो मुनिभिस्तं पुरस्कृत्य विस्मितैः । For Private and Personal Use Only
SR No.020469
Book TitleMandan Granth Sangraha Part 01
Original Sutra AuthorN/A
AuthorMandan Mantri
PublisherLaherchand Bhogilal Shah
Publication Year1918
Total Pages175
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy