SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ३९ ) तं निक्षिप्य सुधागर्भे पर्यङ्के मामभाषत ॥ ५५ ॥ शृणु भद्राधुना वृत्तं सहृदस्ते कपिञ्जलः । अस्य लोकस्य नाथं मामवेहि हरभूषणम् ॥ ५६ ॥ सुहृत्सोऽयं तवासन्नमरणो मदनार्दितः । त्वयि क्वापि गते कोपादशपन्मामनागसम् ॥ ५७ ॥ यदेवं विरहक्लिन्नं मां मारयसि चन्द्रमः !। तवापि च दशा सेयं भूयाजन्मनि जन्मति ॥ ५८ ॥ श्रुत्वेति सोऽहं कुपितः शापं दत्तमकारणम् । तमेव तस्मै व्यतरं शापं मामदायि यः॥ ५९॥ जन्मनीति द्विरुक्तं यच्छापं तेन प्रयच्छता । तस्माद्वयोधरालोके भवितव द्विरुद्भवः ॥ ६ ॥ मन्मयूखभवा गौरी महाश्वेता तदात्मजा । तदाश्वास्य मुमूर्षु तां वपुर्जामातुरानयम् ॥ ६१ ॥ इतो जन्मद्वयं नीत्वा यावदेष्यति तामयम् । अविनाशि भवेदङ्गं तावदस्यामृतद्रवैः ॥ ६२ ॥ तदद्य भारत वर्षे तारापीडो धरापतिः । तपस्यति तनूजार्थी तस्य यास्यामि पुत्रताम् ॥ ६३ ॥ सुहृत्ये शुकनासस्य सुजातयशसो भुवि । तन्मन्त्रिणस्तनूजत्वं प्राप्य मे भविता सखा ॥ ६४ ॥ त्वमेतत्सुहृदो वृत्तं तत्पित्रे श्वेतकेतवे । विज्ञाप्य विधिवत्तेन कर्मायुष्यं च कारय ॥ ६५॥ इत्यादिष्टः शशाङ्केन सुहृद्विरहशून्यधीः । वजन्कश्चित्तपस्यन्तमत्यलयमम्बरे ॥६६॥ स रुष्टो मां शशापाथ दुर्विनीतस्तुरङ्गवत् । मामुल्लखितवान्येन ततस्त्वं तुरगो भव ॥ ६७ ॥ इति श्रुत्वा मयि कृतपणतो माह शान्तधीः । For Private and Personal Use Only
SR No.020469
Book TitleMandan Granth Sangraha Part 01
Original Sutra AuthorN/A
AuthorMandan Mantri
PublisherLaherchand Bhogilal Shah
Publication Year1918
Total Pages175
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy