________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
( ३८ )
कादम्बरीदत्तदृष्टि शशंस च तदग्रजाम् ॥ ४२ ॥ वत्से ! किं नु महाश्वते ! भवती वेत्यमुं जनम् । पूर्वमाश्वासयंस्त्वां यः पौण्डरीकं हरन्वपुः ॥ ४३ ॥ ममाङ्गमविनाशीदं वह्निसान्मा विधीयताम् । कादम्बरी करस्पर्शात्काममस्त्विदक्षतम् ॥ ४४ ॥ कादम्बर्या ममाप्रत्युज्जीवं तत्प्रतिपाल्यताम् । भविता पुण्डरीकेण तवाप्युपगमश्विरात् ॥ ४५ ॥ इत्युक्त्वाऽन्तरिते तस्मिन्सर्वे विस्मयनोऽभवन् । मेने कादम्बरी विघ्नं प्रियानुगमनं प्रति ॥ ४६ ॥ ततः सा पत्रलेखा तु किमतः परमावयोः । इतीन्द्रायुधमाकृष्य पपाताच्छोदपाथसि ॥ ४७ ॥ सरसस्तावदुदभूत्सलिलार्द्रजटाधरः । वल्कली मधुर स्मेरवदनः स कपिञ्जलः ॥ ४८ ॥ तमालोक्य महाश्वेता सहर्ष जातविस्मया । कपिञ्जलोऽयमुदकात्कथमागतवानहो ! ॥ ४९ ॥ इति सत्वरमुत्थाय प्रत्युद्गम्य प्रणम्य ताम् । कादम्बर्याः पुरः प्राह कपिञ्जलमुदञ्जलिः ॥ ५० ॥ महाभाग ! वदाशेषमधुना ज्ञायते मया । क्व नाथः पुण्डरीको मे को वा दिव्याकृतिः पुमान् ? | तमनुद्रुत्य यातेन किमकारि त्वया ततः । इति पृष्टस्ता सर्वमाचष्ट स्पष्टमादितः ॥ ५२ ॥ शृणु भद्रे ! ननु तदा सख्युर्गात्रापहारिणम् । तमनुद्रुत्य पुरुषं दिव्यं दिवमुपागमम् ॥ ५३ ॥ स पुनस्तारकाचक्रं समतिक्रम्य सत्वरम् ।. चान्द्रं लोकमगात्सान्द्रसुधासुरभिदिङ्मुखम् ॥ ५४ ॥ महोदयायां सदसि तत्रात्यद्भुतसम्पदि ।
1
For Private and Personal Use Only