SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ३४ ) तमन्वमंस्त निर्गन्तुं सचिवन्यस्तजीवितः ॥ १५९ ॥ विधिना मन्त्रिपुत्रस्य वैराग्यजनुषाऽमुना । कादम्बरी करानीतामात्मनस्ताममन्यत ॥ १६० ॥ अपरेद्युरथ प्रातः ससैन्यः शासनात्पितुः । निर्ययौ निर्भरानन्दपूर्णेन मनसा पुरात् ॥ १६९ ॥ मनसानुभवमेव मदनोन्मेषशालिना । कादम्बरी दिनैः कैश्चिन्महद्वर्त्मात्यलयत् ॥ १६२ ॥ ददर्श सख्युर्वृत्तज्ञं पथि तं पत्रलेखया । त्रिभिरध्वभिरच्छोदान्मेघनादं निवर्त्तितम् ॥ १६३ ॥ ततो गच्छत एवास्य सकलाशानिरोधकः । कालदूत इव प्राप कालस्तनितक्रियः ॥ १६४ ॥ तं हनिष्यन्नभः सर्पः स पुरोवातपूत्क्रियः । विद्युन्मणीनभ्रफणानुदस्यन्भृशमुज्जहौ (१) ॥ १६५ ॥ नृत्तलोलैः शिखिकुलनींपैर्निर्निद्रकौरकः । सान्द्राभिवाम्बुधाराभिश्रकम्पे तस्य मानसम् || १६८ || शिथिलरथ निबन्धं शीर्णपर्याणवाहम् प्रतिदिनमपि पश्चालम्बिपादातमेषः । अविरचितनिवासः क्वाप्यनेहस्यमुष्मिन् अथ बलमव कर्षन्यापदच्छोदतीरम् ॥ १६९ ॥ इति श्रीमण्डनकादम्बरीदर्पणे तृतीयः परिच्छेदः ततस्तत्मावृषा वीतसवशोभं सरोवरम् । शोकाक्रान्तमिवालक्ष्य शोच्यावस्थमलक्षत || १ || तं द्रष्टुकामः प्रथमं सखायं सरसस्तटे । हयमारुह्य सौत्सुक्यमन्वियेष समन्ततः ॥ २ ॥ तत्र कुत्राप्यनालोक्य पर्यट्य परितः श्रमी । For Private and Personal Use Only
SR No.020469
Book TitleMandan Granth Sangraha Part 01
Original Sutra AuthorN/A
AuthorMandan Mantri
PublisherLaherchand Bhogilal Shah
Publication Year1918
Total Pages175
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy