SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (३०) सा निशां चक्रवाकीभिः समं नयति सव्यथा ॥१०॥ चन्द्रालोकादपि विषं चन्दनादपि पावकम् । बोधादपि पुनर्मूर्छा भूयः सा बहु मन्यते ॥ १०८ ॥ कोलाहलैः कोकिलानां दत्तकर्णज्वरादिव । उद्वेगं भृशमुद्यानविहारेषु बिभर्ति सा ॥ १०९ ॥ विवर्णविकलस्रस्तविवशखिन्नविग्रहा । मुग्धा स्मरभुजङ्गेन मुहुर्दष्टेव मुह्यति ॥ ११० ॥ चलन्ति स्थानतो गन्तुं प्राणास्तस्याः प्रतिक्षणम् । तान्निरुद्ध पुनः कण्ठे तावत्त्वदर्शनस्पृहा ॥ १११ ॥ त्वदीयनामग्रहणैस्त्वद्गुणानां च वर्णनैः। त्वत्सम्बन्धिभिरालापैः सा पत्ते तत्र जीवितम् ॥ ११२ ।। इत्थमेनां त्वदाधीनप्राणां प्रसवसायकः । सन्तापयति ते रूपाविजितो बद्धमत्सरः ॥ ११३ ॥ इति तन्मुखतः श्रुत्वा कामं कादम्बरीकथाम् । तथैव तस्थौ मोहेन चित्रन्यस्त इव क्षणम् ॥ ११४ ॥ पूर्वमेव स्मरात्तस्य पुनस्तस्या व्यथाश्रुतिः । तरोवाभितप्तस्य वज्रपात इवाभवत् ॥ ११५ ॥ तस्याः सन्देशवचनं तज्ज्वरस्य संवृद्धये। अभ्युक्षणमिवाज्येन ज्वलतो जातवेदसः ॥ ११६ ॥ ततः केयूरकं प्राह परवानस्मि पातकी । किं करोमि कृतं पश्य विधिना वामवृत्तिना ? ॥ ११७ ॥ दुस्त्यजं प्रेम देव्याच दुस्त्यजाऽऽज्ञा पितुश्च मे । संकटे पतितः सोऽस्मि परितापैकभाजनम् ॥ ११८ ॥ संयोज्य तत्र नौ पूर्व पुनरेवं वियोज्य च । व्यथयन्विधिचण्डालो न जाने किं करिष्यति ? ॥११९॥ तथापि येन केनापि वर्त्मना मदिरेक्षणाम् । For Private and Personal Use Only
SR No.020469
Book TitleMandan Granth Sangraha Part 01
Original Sutra AuthorN/A
AuthorMandan Mantri
PublisherLaherchand Bhogilal Shah
Publication Year1918
Total Pages175
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy