SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( २९) न निद्रा चाभवन्नस्य स्वप्नेऽपि मुखहेतवः ॥ ९४ ॥ न नृत्ये नैव गीतेषु न वीणायां न वेणुषु । सक्तः स केवलं तत्र बन्दीव विदधे स्थितिम् ॥ ९५ ॥ स कदाचित्ततः शिप्रासैकतोपान्त्यभूमिषु । विनेष्यन्विरह श्रान्तिं व्यचरत्पत्रलेखया ॥ ९६ ॥ सत्र रिनुगतं तुरङ्गैस्त्वरितक्रमैः । स केयूरकमायान्तं ददर्शाध्वकृशाकृनिम् ॥ ९७ ।। स तेन कृतसत्कारः सदनोद्यानवर्तिना। पृष्टः करुणमाचष्ट कादम्बर्या चेष्टितम् ।। ९८॥ देवाकर्णय दत्वैनां मेघनादकर मया। निवृत्तेनात्र भवतो वृत्तं देव्यै निवेदितम् ॥ ९९ ॥ महाश्वेता तदाकर्ण्य महादुःखमुपेयुषी। अगावैराग्यतो देवीमनापृच्छय स्वमाश्रमम् ॥ १० ॥ देवी धिकष्टमित्येव दवालीडेव वल्लरी । निपत्य भुवि निःसंज्ञा निष्प्राणेवाभवच्चिरम् ।। १०१॥ ततः सा किञ्चिदुन्मील्य तालवृन्तानिलादिभिः । मदलेखे ! कुमारेण कृतमन्यः करोनि किम् ॥ १०२ ॥ इत्युक्त्वा जातवैवर्ष्या प्रस्थाप्य सकला: सखीः । कृतावगुण्ठना तल्पे तथैवापनयदिनम् ॥ १०३ ॥ ततः परेधुरारभ्य तस्या गाढतरोज्वरः । विशेषतः शोषयति मृणालमृदुलं वपुः ॥ १०४ ॥ न हर्ये न हिमागारे न तल्पे न सखीजने । न वापीषु न चोद्याने तापस्तस्याः प्रशाम्यति ॥१०५॥ लिखिताविव लक्ष्येते करावस्याः कपोलयोः । सहजेवाश्रुधारा च सन्ततं दृश्यते दशोः ॥ १०६ ॥ करुणं रुदती कामं मूच्र्छा मुहुरुपेयुषी। For Private and Personal Use Only
SR No.020469
Book TitleMandan Granth Sangraha Part 01
Original Sutra AuthorN/A
AuthorMandan Mantri
PublisherLaherchand Bhogilal Shah
Publication Year1918
Total Pages175
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy