SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( २८ ) अयि ! केयूरकः प्रातरागच्छेत्पत्रलेखया ॥ ८१ ॥ ततो यात्राप्रणामादि देव्यै मम निवेदय । त्वं च कैश्चिद्दिनैरेहि पुरो मां पत्रलेखया ॥ ८२ ॥ इत्थमादिश्य पार्श्वस्थं वैशम्पायनमाह च । अद्य गच्छाम्यहं तातपादालोकनकौतुकी ॥ ८३ ॥ प्रस्थाप्य मेघनादेन पत्रलेखां पुरः पुरीम् । विश्रामयन्पथि बलं शनैरेहि पुरीमिति ॥ ८४ ॥ तथैवारुह्य तुरगं निवृत्य निखिलान्नृपान । परिमेयपरीवारः प्राप कैश्चिद्दिनैः पुरीम् ॥ ८५ ॥ तारापीडः समाकर्ण्य प्राप्तं प्रमदवान्सुतम् । प्रत्युद्यो पुरस्कृत्य शुकनासं स्वबन्धुभिः ॥ ८६ ॥ चिराध्वन्यतया श्रान्तां पश्चाद्विश्राम्य वाहिनीम् । वैशम्पायनमायान्तं तरि तृभ्यां न्यवेदयत् ॥ ८७ ॥ ततः सुचिरसन्दृष्टैर्बन्धुभिर्वहुमानितः । कादम्बर्याः स्मरन्नेव तस्थौ तत्र स्मरातुरः ॥ ८८ ॥ ततः सा मेघनादेन पत्रलेखा पुरस्कृता । कुमारविरहक्षामा दिवसैः कैश्चिदाययौ ॥ ८९ ॥ साथ कादम्बरीं तस्मै शशंस दृढसंज्वराम् । अनुक्षणमनङ्गेन प्रापितप्राणदुर्दशाम् ॥ ९० ॥ सन्दिष्टं च तया तस्याः स निशम्य समाकुलः । महतीमगमच्चिन्तां मदनेनाप्यनुद्यतः (१) ॥ ९१ ॥ कथञ्चिन्नीतदिवसः स पित्रोरुपलालनैः । कल्पवत्कलयामास तल्पसाक्षिव्यथो निशाम् ॥ ९२ ॥ स चित्ररथकन्यायाः सन्देशं चरितानि च । नवं नवमिवामाक्षीत्पत्रलेखां पदे पदे ॥ ९३ ॥ न स्नानं नोज्ज्वलं वासो नानुलेपो न भूषणम् । For Private and Personal Use Only
SR No.020469
Book TitleMandan Granth Sangraha Part 01
Original Sutra AuthorN/A
AuthorMandan Mantri
PublisherLaherchand Bhogilal Shah
Publication Year1918
Total Pages175
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy