SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( २७ ) पादर्शयत्पत्रलेखां बह्वमन्यत सा च ताम् ॥ ६८ ॥ ततः स्वविपयं तस्या जिज्ञासुर्मदनज्वरम् । स स्मितोदरमधुरं साकूतं समभाषत ॥ ६९ ॥ काऽयं ज्वरः कुरङ्गाक्षि ! मदनामोदमावहन् । पुष्पेषुपातितमहो ! वपुस्ताम्यति तावकम् ॥ ७० ॥ इमां वक्रोक्तिमेतस्य श्रुत्वा सा च शुचिस्मिता । वदनं मदलेखायाः सख्या साकूतमैक्षत ।। ७१ ॥ सा तयोविदिताहृतव्यापाराथ विचक्षणा । उवाच मधुरोदारमुचितं तावदुत्तरम् ॥ ७२ ॥ कुमार ! विषमो ह्यस्याः कोप्यदृष्टपुराज्वरः। मन्ये चित्तभुवः क्षोभाकि न जायेत केवलम् १ ॥ ७३ कलये गात्रमेतस्या. कुसुमादपि कोमलम् । तस्याधुना कथं शंस कुसुमेषुसहिष्णुता ॥ ७४ ॥ भवानेव हि जानाति भैषज्यं तदितः परम् । भवतः स्पर्शमात्रेण स्वैरमस्याः सुखं भवेत् ।। ७५ ॥ इत्याकर्ण्य विदग्धोक्तिमेतस्याः स्मिताननः । मदनाग्निं पुरस्कृत्य तामुपायंस्त चेतसा ॥ ७६ ॥ तत्रैवं मधुरालापैः कृत्वा क्षणमवस्थितिम् । कृच्छ्रात्तया कृतानुज्ञः कृती स्वं शिविरं ययौ ॥७७।। इयं प्रातरितो यायादित्येवं याचितस्तया। तथेति पत्रलेखां तां चक्रे तत्सविधस्थिताम् ॥ ७८ ॥ स प्राप्तशिविरस्तावत्सन्देशं पितुरागतम् । ददर्श दृष्टमात्रेण तूणमागम्यतामिति ॥ ७९ ॥ ततश्चोरितचित्तोऽपि स चित्ररथकन्यया । पितुर्वृत्तमजानानः प्रास्थित प्रेमदुःखितः ॥ ८॥ मिथः प्राह स निर्गच्छन्मेघनादं चम्पतिम् । For Private and Personal Use Only
SR No.020469
Book TitleMandan Granth Sangraha Part 01
Original Sutra AuthorN/A
AuthorMandan Mantri
PublisherLaherchand Bhogilal Shah
Publication Year1918
Total Pages175
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy